सामग्री पर जाएँ

अर्थवादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्थवादः, पुं, (अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दा- र्थस्य वा वादः, वद् + करणे घञ् ।) स्तुतिः । प्रशंसा । इति हेमचन्द्रः ॥ स तु त्रिविधः । गुण- वादः १ अनुवादः २ भूतार्थवादः ३ । यथा, -- “विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥ इति भट्टः ॥ तत्त्वसम्वोधिनीमते सप्तविधः । स्तुत्य- र्थवादः १ फलार्थवादः २ सिद्धार्थवादः ३ नि- न्दार्थवादः ४ परकृतिः ५ पुराकल्पः ६ मन्त्रः ७ । एषामुदाहरणानि श्रुत्युक्तत्वात् न लिखितानि ॥ विध्यसमभिव्याहृतवाक्यं । यथा । “अर्थवादश्च विध्यसमभिव्याहृतवाक्यरूपः” सोऽपि त्रिविधः । गुणवादानुवादभूतार्थवादभेदात् । यथा -- “विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥ इति ॥ अयमर्थः । विरोधे विशेष्यविशेषणयोः सामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्ग- कथनरूपत्वात् । यथा “यजमान स्रस्तरः” इति । अत्र स्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वय- बाधात् यजमानस्य कुशमुष्टिधारणरूपार्थवाद- रूपत्वात् गुणवादः । अवधारिते प्रमाणान्तर- सिद्धेऽर्थे यो वादः । यथा नान्तरीक्षेऽग्निश्चेतव्यः अग्निंर्हिमस्य भेषजं इत्यादि च । अन्तरीक्षेऽग्नि- चयनस्यासम्भवेन तदभावस्य अग्नेर्हिमनाशक- त्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः । तद्धानौ तयोर्विरोधावधारनयोरभावे भूतार्थ- वादः । यथा इन्द्रो वृत्रहन्नित्यादि । सोऽपि द्विविधः । स्तुत्यर्थवादो निन्दार्थवादश्च । यथा, -- “सन्ध्यामुपासते ये च” इत्यादि स्तुत्यर्थवादः । “स्त्रीतैलमांससंभोगी पर्ब्बस्वेतेषुवै पुमान् ॥ विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः” । इत्यादि निन्दार्थवादः । इति श्राद्धविवेकटीकायां श्रीकृष्णतर्कालङ्कारः ॥ * ॥ “प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं” । इति वेदान्तसारः ॥ तद्विवरणं यथा । अथार्थ- वादाधिकरणं । तत्रार्थवादाश्च बहुषु श्रूयन्ते ते किं प्रमाणं न वेति संशये पूर्ब्बपक्षसूत्रं । आम्ना- यस्य प्रवर्त्तकत्वं तदर्थमेव तदवतारादिति । अ- स्यार्थः । आम्नायस्य वेदस्य प्रवर्त्तकत्वं विधेये इति शेषः । तदर्थं वेदाभिधानात् । तच्च प्रवर्त्तकत्वं कार्य्यताज्ञानद्वारैव तद्विना प्रवृत्त्यभावात् । अतः सिद्धार्थकानां स्तुत्यर्थवादानां कार्य्यतावाच- कपदाभावात् न कार्य्यताधीजनकत्वं । अतो- ऽप्रामाण्यमेव । अतस्तेषामर्थवादानां प्रवर्त्तक- त्वार्थमवश्यं विधिकल्पनं कॢप्तविशेषणत्वं वा युक्तं अतएव सिद्धान्तसूत्रं । विधिना त्वेकवाक्य- त्वात् स्तुत्यर्थेन विधीनां स्युरिति । अस्यार्थः । अर्थवादानां स्तुतिपरत्वेन विधिना सह एक- वाक्यत्वात् ते अर्थवादाः प्रमाणानि स्युः । तथा च विधेयप्रवृत्तावेव तेषां तात्पर्य्यं तत्रैव प्रामाण्यं यत्परशब्दः स शब्दार्थ इति सिद्धान्तात् न स्वार्थे स्तुत्यादौ तत्र तात्पर्य्यामावात् । तर्हि यन्न टुःखेन सम्भिन्नमित्यादेः स्वत्न्त्रार्थवादानां का गतिरित्य- त्राह भूतार्थानां क्रियार्थेन समाम्नायः । अस्यार्थः । भूतार्थानां सिद्धार्थानां क्रियार्थेन कार्य्यबोधकेन विधिना इति यावत् । समाम्नायः पाठः कार्य्य- इति शेषः । ततश्च विधिवाक्याकाङ्क्षापूरकत्वेन कार्य्यान्वितबोधकतया तेषां प्रामाण्यं । यथा । लिखिष्यमाणयूपाहवनीयवाक्यानां यूपाहवनीय- परिचयाय कार्य्यान्वितबोधकत्वेन स्वार्यबोधकत्वे प्रामाण्यं । तथा स्वर्गकामो यजेतेत्यत्र स्वर्गरूप- परिचयाय स्वर्गबोधकत्वेन । “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरं । अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदं” ॥ इत्यादि वाक्यानामपि प्रामाण्यं । अन्यथा यूपा- दिपदार्थापरिचये च तत्तद्विधिवाक्यानां प्रवृत्तिर्न स्यादतो विधिनैकवाक्यत्वात् सिद्धार्थकानामपि प्रामाण्यं । यत्र तु विधिना सह विरोधः तत्र न स्वार्थे प्रामाण्यं । यथा “अहरहः सन्ध्यामुपा- सीत” इत्यादौ । “सन्ध्यामुपासते ये तु नियतं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्” ॥ इत्याद्यर्थवादानां ॥ अतो नित्ये कर्म्मणि फलश्रुति- रर्थवादएव सोऽपि रुच्युत्पादनपरः । अतोऽत्र कार्य्यताज्ञानादेरप्रवृत्तिरिति दिक् । इति धर्म- दीपिका ॥

"https://sa.wiktionary.org/w/index.php?title=अर्थवादः&oldid=113417" इत्यस्माद् प्रतिप्राप्तम्