अर्थवान्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्थवान्, [त्] पुं, (अर्थोऽस्त्यस्य, अर्थ + मतुप् + मस्य वः ।) पुरुषः । इति राजनिर्घण्टः ॥ अर्थवि- शिष्टे त्रि ॥ (ऐश्वर्य्यशाली । “तेनार्थवान् लोभपरा- ङ्मुखेन” । इति रघुवंशे । अभिधेययुक्तः । सार्थकः । “करोति यः सर्व्वजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः” । इति किरातार्जुनीये । “अर्थवान् खलु मे राज- शब्दः” । इति शाकुन्तले ।)
