अर्थशास्त्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्थशास्त्रम्, क्ली, (अर्थस्य भूमिधनादेः प्रापकं शास्त्रं, षष्ठीतत्पुरुषः ।) चाणक्यादिप्रणितं नीतिशास्त्रं । तत्पर्य्यायः । दण्डनीतिः २ । इत्यमरः ॥ यथा, -- “वृहस्पतिप्रभृतिभिः प्रणीतञ्चार्थशास्त्रकं । तत्रैव दण्डनीतिः स्यादत्र ज्ञेयौ नयानयौ” ॥ इति शब्दरत्नावली ॥ अष्टादशविद्यान्तर्गतविद्या- विशेषः । यथा विष्णुपुराणं । “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्ब्बश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः” ॥ इति प्रायश्चित्ततत्त्वं ॥ * ॥ धर्म्मशास्त्रेणार्थ- शास्त्रस्य बाध्यत्वं यथा ॥ “स्मृत्यर्थेन विरोधे हि अर्थशास्त्रस्य बाधनं । परस्परविरोधे तु न्याययुक्तं प्रमाणवत्” ॥ अर्थशास्त्रस्य मन्वादिप्रणीतराजनीत्यादिविष यस्य । यदाह, -- “अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ इत्यनयोर्धर्म्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ धर्म्म शास्त्रेण दण्डविधायकमर्थशास्त्रं बाध्यते । तत- श्चार्थशास्त्रस्य त्रिपुरुषीयेतरपरत्वेन सङ्कोचः” । इति मलमासतत्त्वं ॥
