सामग्री पर जाएँ

अर्दित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्दितम्, क्ली, (अर्द + क्तः ।) वायुव्याधिविशेषः । तस्य (निदानपूर्ब्बरूपसम्प्राप्तिपूर्ब्बकं) लक्षणमाह (सुश्रुतः) । “उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि च । हसतो जृम्भतो भाराद्विषमाच्छयनादपि ॥ शिरोनासौष्ठचिवुकललाटेक्षणसन्धिजः । अर्द्दयित्वानिलो वक्त्रमर्द्दितं जनयत्यतः ॥ वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते । शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम् ॥ ग्रीवाचिवुकदन्तानां तस्मिन् पार्श्वे तु वेदना ॥ (यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलं । वायरूर्द्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः ॥) तमर्द्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः” ॥ तस्यासाध्यलक्षणञ्चाह ॥ “क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः । न सिध्यत्यर्द्दितं वाढं त्रिवर्षं वेपनस्य च ॥ * ॥ भावप्रकाशेऽप्येयं व्याख्या ॥ व्याहरतः वदतः । कठिनानि पूगफलादीनि । विषमाच्छयनासना- दिति पाठान्तरे । विषमाच्छयनासनात् ग्रीवादि- वैपरीत्येन शयनादासनाच्च । अर्द्दयति पीडयति । जनयेत्तत इति पाठान्तरे । ततस्तदनन्तरं अर्द्दितं जनयेत् । अर्द्दिते जाते किं स्यात्तदाह । वक्री- भवतीत्यादि । अपवर्त्तते वक्रीभवति । चलति कम्पते । वाक्सङ्गः वाङ्निरोधः । नेत्रादीना- मित्यादिशब्देन भ्रूगण्डनासिकादीनां ग्रहणं । वैकृतं वेदनास्फुरणवक्रत्वादि । ग्रीवेत्यादि यस्मिन् पार्श्वे अर्द्दितं तस्मिन् पार्श्वे ग्रीवादीनां वेदना ॥ अनिमिषाक्षस्य निमेषासमर्थचक्षुषः । प्रसक्तं प्रकर्षेण लग्नं अव्यक्तञ्च भाषितुं शीलं यस्य । तस्य अर्द्दितं न सिध्यति त्रिवर्षं अतीतवर्षत्रयं । अथवा त्रयाणां चक्षुर्नासामुखानां वर्षः स्रावो यत्र तत् । वेपनस्य कम्पनशीलस्य च । वाढमतिशयेन न सिध्यति इत्यन्वयः । गाढमित्यर्थे च स एवार्थः ॥ * ॥ (चरकश्चाह । “अतिवृद्धः शरीरार्द्धमेकं वायुः प्रपद्यते । यदा तदोपशोष्यासृक् बाहुं पादञ्च जानु च ॥ तस्मिन् सङ्कोचयत्यर्द्धे मुखं जिह्मं करोति च । वक्रीकरोति नासाभ्रुललाटाक्षिहनुन्तथा ॥ ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकं । स्तब्धं नेत्रं कथयतः क्षरथुश्च निगृह्यते ॥ दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्यवाक् । दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः ॥ पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् । अर्द्धे तस्मिन् मुखार्द्धे वा केवले स्यात्तदर्द्दितं” ॥ * ॥ वाभटस्वाह । “शिर सा भारहरणादतिहार्यप्रभाषणात् । उत्त्रासवक्त्रक्षरथुस्वरकार्मुककर्षणात् ॥ विषमादुपधानाच्च कठिनानाञ्च चर्ब्बणात् । वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्द्ध्वमास्थितः ॥ स्नैहाभ्यङ्गशिरोवस्तिपाननस्यपरायणः । अर्द्दितं स जयेत् सर्पिः पिबेदौत्तरभक्तिकं” ॥ * ॥ भावप्रकाशेऽप्येतदतिरिक्तं यत्संगृहीतं तच्चैतत् ॥) “स्नेहपानानि नस्यञ्च भोज्यान्यनिलहृन्ति च । उपनाहाश्च शस्यन्ते स्वेदनं वस्तयोऽर्द्दिते” ॥ वस्तिरत्रशिरोवस्तिरेव । “दशमूलीकषायेण मातुलुङ्गरसेन वा । बलया पञ्चमूल्या वा क्षीरं वातात्मके हितं ॥ पिष्टं माषकृतं जग्ध्वा नवनीतेन सोऽर्द्दिती । क्षीरं मांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ॥ अर्दिते पित्तजे शीतान् स्नेहांश्चैव विनिर्द्दिशेत् । घृतवस्तिप्रसेकञ्च क्षीरसेकं तथैव च ॥ जिह्मीभूताननो मूको दाहवान् योऽर्द्दिती भवेत् । कुर्य्यात् प्रतिक्रियां तस्य वातपित्तविनाशिनीं ॥ श्लेष्मभागे क्षयं नीते वृंहणैः समुपाचरेत् । अर्दिते शोथसंयुक्ते वमनञ्च प्रशस्यते ॥ रसोनकल्कं तिलतैलमिश्रं खादेन्नरो योऽर्द्दितरोगयुक्तः । तस्यार्द्दितं नाशमुपैति शीघ्रं वृन्दं घनानामिव वायुवेगात्” ॥ इति ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्दित वि।

याचितः

समानार्थक:प्रार्थित,अर्दित

3।1।97।2।6

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्दित¦ mfn. (-तः-ता-तं)
1. Asked, requested, begged.
2. Killed, injured.
3. Pained, afflicted.
4. Gone. n. (-तं) A disease, Hemiplegin, paralysis of the muscles on one side of the face and neck. E. अर्द to go, to ask, &c. affix क्त, and इट् inserted.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्दित [ardita], p. p. [अर्द्-क्त] Tormented, afflicted; begged &c. -तम् A disease, spasm of the jaw-bones, tetanus or hemiflegia (paralysis of the muscles on one side of the face and neck).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्दित mfn. asked , requested , begged L.

अर्दित mfn. injured , pained , afflicted , tormented , wounded MBh. etc.

अर्दित mfn. killed , destroyed ib.

अर्दित n. N. of a disease (spasm of the jaw-bones , trismus , tetanus ; or hemiplegia i.e. paralysis of the muscles on one side of the face and neck) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अर्दित&oldid=488655" इत्यस्माद् प्रतिप्राप्तम्