सामग्री पर जाएँ

अर्द्दित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्दितः, त्रि, (अर्द्द + क्तः ।) याचितः । इत्यमरः ॥ हिंसितः । इति मेदिनी ॥ गतः । पीडितः । इति शब्दरत्नावली ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्दित¦ त्रि॰ अर्द्द--क्त।

१ पीडिते,

२ गते,

३ याचिते च।

४ रोगभेदेन॰
“अर्दयित्वाऽनिलोवक्त्रमर्दितं जनयत्यतः। वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते। शिरश्चलति वाक्-सङ्गो नेत्रादीनाञ्च वैकृतम्। ग्रीवाचिवुकदन्तानांतस्मिन् पार्श्वे तु वेदना। यस्याग्रजो रोमहर्षो वेपथुर्नेत्र-माविलम्। वायुरूर्द्धं त्वचि स्वापस्तोदोमन्याहनुग्रहः। तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः। क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः। न सिध्यत्यर्दितं वाढंत्रिवर्षं वेपनस्य च”। इति सुश्रु॰।
“क्षयकासश्वास व्रणार्शोऽर्द्दितापहम्”।
“हनुमोक्षमधीमन्थमर्दितञ्च सुदा-रुणम्” इति च सुश्रु॰!

"https://sa.wiktionary.org/w/index.php?title=अर्द्दित&oldid=208584" इत्यस्माद् प्रतिप्राप्तम्