अर्द्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्द्धः, पुं, (ऋध् + घञ् ।) एकदेशः । तत्पर्य्यायः । भित्तं २ शकलं ३ खण्डं ४ । इत्यमरः ॥ (“पश्चा- र्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्ब्बकायम्” ॥ इति शाकुन्तले । “सर्व्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः । अर्द्धेन कुरुते कार्य्यं सर्व्वनाशो हि दुःसहः” ॥ इति पञ्चतन्त्रं ।)
