अर्द्धनारीशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्द्धनारीशः, पुं, (अर्द्धाङ्गे या नारी पार्ब्बतीरूपा तस्या ईशः ।) शिवः । इति शब्दरत्नावली ॥ तस्य ध्यानं यथा, -- “नीलप्रबालरुचिरं विलसत्त्रिनेत्रं पाशारुणोत्पलकपालकशूलहस्तं । अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रणमामि रूपं” ॥ इति तन्त्रसारः ॥
