अर्द्धनारीश्वरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्द्धनारीश्वरः, पुं, (अर्द्धाङ्गे या नारी तस्या ईश्वरः ।) उमामहेश्वरः । स च शिवः । यथा विष्णुधर्म्मोत्तरे । “अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता । अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः” ॥ इति तिथ्यादितत्त्वं ॥ अपि च । “अजेशः सर्व्वसोमेशस्तथा लाङ्गुलिदारुकौ । अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ” ॥ इति तन्त्रसारे शिवमन्त्रे श्रीकण्ठादिन्यासः ॥ * ॥ अस्य मन्त्रादिकं यथा, -- “अग्निसंवर्त्तकादित्यरानिलौ षष्ठविन्दुमत् । चिन्तामणिरिति ख्यातं वीजं सर्व्वसमृद्धिदं” ॥ अग्नीरेफः । संवर्त्तकः क्षकारः । आदित्यो मकारः । र रेफः । अनिलो यकारः । औ स्वरूपं । षष्ठस्वर ऊकारः ॥ प्रपञ्चसारे । “अनलकयमरेफ- प्राणसत्यान्तवामश्रुतिहिमरुचिखण्डैर्मण्डितो म- न्त्रराजः” । इति वचनात् रेफ एव न तु वकारः । रं£ क्षं£ मं£ रं£ यं£ औं£ ऊं£ । इति मन्त्रः । अस्य पूजा प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । यथा शिरसि कश्यपाय ऋषये नमः । मुखेऽनुष्टुप्छन्दसे नमः । हृदि अर्द्धनारीश्वराय देवतायै नमः । ततः कराङ्गन्यासौ कुर्य्यात् । रं अङ्गुष्ठाभ्यां नमः । कं तर्जनीभ्यां स्वाहा । षं मध्यमाभ्यां वषट् । मं अनामिकाभ्यां हु~ । रं कनिष्ठाभ्यां वौषट् । यं करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । तथा च निबन्धे । “रेफादिव्यञ्जनैः षड्भिः कुर्य्यादङ्गानि षट् क्रमात्” । ततो ध्यानं । “नीलप्रबालरुचिरं विलसत्त्रिनेत्रं पाशारुणोत्पलकपालकशूलहस्तं । अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रणमामि रूपं” ॥ एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वा शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्च- पुष्पाञ्जलिदानपर्य्यन्तं विधाय आवरणपूजामार- भेत । यथा । केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च रं इत्यादिना षडङ्गानि पूजयेत् । ततः पत्रेषु पूर्ब्बवत् वृषभादीन् पूजयेत् । पत्राग्रेषु पूर्ब्बादितः ब्राह्मीं माहेश्वरीं कौमारीं वैष्णवीं वाराहीं इन्द्राणीं चामुण्डां महालक्ष्मीञ्च पूजयेत् । तद्वहि- रिन्द्रादीन् वज्रादींश्च संपूज्य धूपादिविसर्जनान्तं कर्म्म समापयेत् ॥ अस्य पुरस्करणं लक्षजपः । तथा च । “लक्षमेकं जपेन्मन्त्रमित्थं मन्त्री विचिन्तयन् । अयुतं मधुरासिक्तैर्ज्जुहुयात्तिलतण्डुलैः” ॥ इति तन्त्रसारः ॥
