सामग्री पर जाएँ

अर्द्धम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्धम्, क्ली, (ऋध् + घञ् ।) समानांशः । समभागः । इत्यमरः ॥ आधा इति भाषा । समभागेऽर्द्धशब्दः पुमान् क्लीवञ्च । अर्द्धशब्दः पुंलिङ्गः खण्डपर्य्याय- एव विभागीकृत्य वण्टितस्य तुल्यवण्टिते अद्ध क्लीवमेवेति केचित् । अर्द्धो रूपभेदात् भागे पुंसि । तथा वस्त्रार्द्धो नगरार्द्धः उपचारात्तु भाग- वति वाच्यलिङ्गः । यथा अर्द्धा शाटी अर्द्धः कम्बलः अर्द्धं वस्त्रं । इति माधवी ॥ असमपरिभागवृ- त्तिस्त्रिलिङ्गोऽर्द्धैत्यनुन्यासः । समग्रविभागेऽर्द्ध- शब्दो नपुंसक एव नान्यलिङ्गः । इति भागवृत्तिः । इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=अर्द्धम्&oldid=113448" इत्यस्माद् प्रतिप्राप्तम्