सामग्री पर जाएँ

अर्द्धरात्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्धरात्रः, पुं, (अर्द्धं रात्रेः, अर्द्धं नपुंसकमित्येक- देशी समासः, अहःसर्व्वैकदेशसंख्यातपुण्याच्च रात्रेरिति समासान्तोऽच्प्रत्ययः, रात्र्यह्नाहा पुंसि इति नियमात् पुंस्त्वम् ।) रात्र्यर्द्धभागः । दुइप्रहर रात्रि इति भाषा । तत्पर्य्यायः । निशीथः २ । इत्यमरः ॥ निसम्पातः ३ अवसरालयः ४ । इति शब्दरत्नावली ॥ सुप्तजनः ५ । इति जटाधरः ॥ रात्र्यष्टममुहूर्त्तः । स तु रात्रिमध्यदण्डद्वयात्मकः । सम्पूर्णार्द्धरात्रोऽप्ययं । महानिशा । सा तु सा- र्द्धप्रहरानन्तरं सार्द्धतृतीयप्रहरपर्य्यन्तं । इति स्मृतिः ॥ (“मध्यन्दिनेऽर्द्धरात्रे च श्राद्धं भुक्त्वा च सामिषम्” । “मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्म्मकामार्थान् सार्द्धं तैरेक एव वा” ॥ इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अर्द्धरात्रः&oldid=113471" इत्यस्माद् प्रतिप्राप्तम्