सामग्री पर जाएँ

अर्द्धलक्ष्मीहरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्धलक्ष्मीहरिः, पुं, (अर्द्धं लक्ष्म्या आकारे, अर्द्धं च हरेः, तादृशो हरिः ।) विष्णुः । यथा । गौतमीये, -- “ऋषिः प्रजापतिश्छन्दो गायत्त्री देवता पुनः । अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीवीजेन षडङ्गकं” ॥ अस्य मन्त्रादि यथा, -- “तारं नमः पदं ब्रूयान्नरौ दीर्घसमन्वितौ । पवनोणायमन्त्रोऽयं प्रोक्ती वस्वक्षरः परः” ॥ अस्य पूजाप्रयोगः । प्रातःकृत्यादिस्नानान्तं कर्म्म कृत्वा पूजामण्डपमागत्य वैष्णवाचमनं कुर्य्यात् । तद्यथा गौतमीये, -- “केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ । द्वाभ्यामोष्ठौ द्विरुन्मृज्य द्वाभ्यां मृज्यान्मुखं ततः ॥ एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः । संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः ॥ आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् । स्पृशेदेवं भवेदाचमनञ्च वैष्णवान्वये ॥ एवमाचमनं कृत्वा साक्षान्नारायणो भवेत्” ॥ केशवादयस्तु केशव-नारायण-माधव-गोविन्द- विष्णु-मधुसूदन-त्रिविक्रम-वामन-श्रीधर-हृषी- केश-पद्मनाभ-दामोदर-सङ्कर्षण-वासुदेव-प्रद्युम्ना- निरुद्ध-पुरुषोत्तमाधोक्षज-नृसिंहाच्युत-जनार्द्दनो- पेन्द्र-हरिविष्णवः ॥ वाक्यन्तु ओम् केशवाय नमः । इत्यादि । तथा च । “सचतुर्थिनमोऽन्तैश्च नामभिर्व्विन्यसेत् सुधीः” ततः सामान्यार्ध्यादिमातृकान्यासान्तं कर्म्म वि- धाय केशवकीत्यादिन्यासं कुर्य्यात् । अस्य ऋष्यादि- न्यासः । शिरसि प्रजापतये ऋषये नमः । मुखे गायत्रीच्छन्दसे नमः । हृदि अर्द्धलक्ष्मीहरये देवतायै नमः । ततः कराङ्गन्यासौ । श्रीं अङ्गु- ष्ठाभ्यां नमः । इत्यादि । श्रीं हृदयाय नमः । इत्यादि । तथा च गौतमीये । “ऋषिः प्रजापतिश्छन्दो गायत्री देवता पुनः । अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीवीजेन षडङ्गकं” ॥ ततो ध्यानं । “उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टं । नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं, विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिं” ॥ इत्यादि । इति तन्त्रसारः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्धलक्ष्मीहरि¦ अर्द्धं लक्ष्म्या आकारेऽस्य तादृशो हरिः। लक्ष्मोनारायणात्मके विष्णोर्मूर्त्तिभेदे तद्रूपं यथा
“उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं पार्श्वद्वन्द्वे जलघिसुतयाविश्वधात्र्या च जुष्टम्। नानारत्नोत्कलितविविधाकल्प-मापीतवस्त्रं विष्णुं वन्दे दरकमल कौमोदकोचक्रपाणिमिति”

"https://sa.wiktionary.org/w/index.php?title=अर्द्धलक्ष्मीहरि&oldid=208633" इत्यस्माद् प्रतिप्राप्तम्