सामग्री पर जाएँ

अर्द्धोदय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्धोदयः, पुं, (अर्द्धस्य समृद्धस्य पुण्यस्य उदयो यत्र ।) योगविशेषः । स च रविवारव्यतीपातश्रवणा- नक्षत्रैर्युक्ता चेत् पौषमाघयोरमावास्या स्यात्तदा भबति । यथा । पाश्चात्यनिर्णयामृते । “अमार्कपातश्रवणैर्युक्ता चेन्माघपौषयोः । अर्द्धोदयः स विज्ञेयः कोटिसूर्य्यग्रहैः समः ॥ अत्र सूर्य्यपर्ब्बशताधिक इति कृत्यचिन्तामणौ पाठः । तथा । “दिवैव योगः शस्तोऽयं न च रात्रौ कदाचन ।” स्कन्दपुराणे । “अर्द्धोदये तु संप्राप्ते सर्व्वं गङ्गासमं जलं । शुद्धात्मानो द्विजाः सर्व्वे भवेयुर्ब्रह्मसन्निभाः ॥ यत्किञ्चित् क्रियते दानं तद्दानं सेतुसन्निभं” ॥ शिवविष्णुस्नानप्रशस्तकालोऽपि । वृहन्नारदीयं । “अर्द्धोदये च पूष्यार्के हस्तार्के रोहिणीबुधे” । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्द्धोदय¦ पु॰ अर्द्ध स्य समृद्धस्य पुण्यस्य उदयो यत्र। तिथि-नक्षत्रादियोगविशेषे
“माघेमासि आमावस्या यदि अर्क-युता भवेत्। नक्षत्रे श्रवणे देवि! व्यतीपातो भवेद्यदा। अर्द्धोदयः स विज्ञेयः सूर्य्यपर्वशतैःसमः। दिवैवयोगः शस्तोऽयं न च रात्रौ कदाचन। अर्द्धोदये तु सम्प्राप्तेसर्वं गङ्गासमं जलम्। शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्म-सस्मिताः। यत् किञ्चित् क्रियते दानम् तद्दानं सेतुसन्नि-भमिति” निर्णया॰।
“अमार्कपातश्रवणैर्युता चेत् पौषमा-घयीः। अर्द्धोदयः स विज्ञेय, कोटिसूर्य्यग्रहैः समः” स्क॰ पु॰।
“अर्द्धोदये च पुष्यार्के हस्तार्के रोहिणोबुधे” वृहन्नारदीयम्।

"https://sa.wiktionary.org/w/index.php?title=अर्द्धोदय&oldid=208662" इत्यस्माद् प्रतिप्राप्तम्