सामग्री पर जाएँ

अर्ब्बुदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्ब्बुदः, पुं, क्ली, (अर्ब्ब + विच्, तस्मै उदेति, उद् + इण + ड ।) दशकोटिसंख्या । रोगविशेषः । मांसकीलः । मांसपुरुषः । आव् इति भाषा । इति लिङ्गादिसंग्रहे अमरो मेदिनी च ॥ तस्य निदानलक्षणे । “गात्रप्रदेशे क्वचिदेव दोषाः संमूर्च्छिता मांसमसृक् प्रदूष्य । वृत्तं स्थिरं मन्दरुजं महान्त- मनल्पमूलं चिरवृद्ध्यपाकं ॥ कुर्ब्बन्ति मांसोच्छ्रयमत्यगाधं तमर्ब्बदं शास्त्रविदो वदन्ति” । महान्तं ग्रन्थ्यपेक्षया चिरेण वृद्धिरपाकश्च यस्य तत् चिरवृद्ध्यपाकं । अपाकमिति ग्रन्थेः सका- शादस्य भेदज्ञापकं । अत्यगाधं दूरानुप्रविष्टं ॥ * ॥ निदानपूर्ब्बकाणि विशिष्टानि लक्षणान्याह । “वातेन पित्तेन कफेन वापि रक्तेन मांसेन च मेदसा च । तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति” ॥ ग्रन्थेः समानानि वातिकपैत्तिकश्लैष्मिकमेदोजानां ग्रन्थीनां लक्षणैर्व्वातिकपैत्तिकश्लैष्मिकमेदोजाना- “ग्रन्थ्यर्ब्बुदानां न यतो विशेषः प्रदोषहेत्वाकृतिदोषदुष्टेः । अतश्चिकित्सेद्भिषगर्ब्बुदानि विधानविद्ग्रन्थिचिकित्सितेन ॥ हरिद्रा-लोध्र-पत्तङ्ग-गृहधूम-मनःशिला । मधुप्रगाढो लेपोऽयं मेदोऽर्ब्बुदहरः परः ॥ १ ॥ मूलकस्य कृतः क्षारो हरिद्रायास्तथैव च । शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽर्ब्बुदापहः ॥ २ ॥ वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण । अध्य- स्थिसप्तरात्रात् महादप्युपशान्तिमर्ब्बुदं गच्छेत् ॥ ३ ॥ शिग्रुमूलकयोर्ब्बीजं रक्षोघ्नं सुरसां यवं । तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्ब्बुदशान्तये ॥ ४ ॥ रक्षोघ्नं सर्षपं । सुरसां तुलसीं । यवं रन्द्रयवं । अश्वरिपुं करवीरं । इत्यर्ब्बुदाधिकारः । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=अर्ब्बुदः&oldid=113500" इत्यस्माद् प्रतिप्राप्तम्