सामग्री पर जाएँ

अर्य्यमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्य्यमा, [न्] पुं, (अर्य्यं श्रेष्ठं मिमीते, मा + कनिन् ।) सूर्य्यः । (“प्रोषितार्य्यमणं मेरोरन्धकारस्तटीमिव” । इति माघः । “सूर्य्योऽर्य्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः” ॥ इति महाभारति । कश्यपात् दक्षकन्यया दित्या जातो द्वादशादित्यमध्ये परिगणितः ख्यात आ- दित्यः, यदुक्तं हरिवंशे, -- “मारीचात् कश्यपाज्जातास्ते दित्या दक्षकन्यया । तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेव ह ॥ अर्य्यमा चैव धाता च त्वष्टा पूषा च भारत ! ॥ विवस्वान् सविता चैव मित्रो वरुण एव च । अंशोभगश्चातितेजा आदित्या द्वादश स्मृताः” ॥) अर्कवृक्षः । इत्यमरः ॥ पितृदेवविशेषः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=अर्य्यमा&oldid=113511" इत्यस्माद् प्रतिप्राप्तम्