सामग्री पर जाएँ

अर्शः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्शः, [स्] क्ली, (ऋ + असुन्, शुट् ।) स्वनाम- ख्यातपायुरोगः । तत्पर्य्यायः । दुर्नामकं २ । इत्य- मरः ॥ दुर्नाम ३ गुदकीलः ४ गुदाङ्कुरः ५ । इति राजनिर्घण्टः ॥ अनामकं ६ । इति शब्द- रत्नावली ॥ यथा । अथार्शोऽधिकारः । तत्रार्शसः सन्निकृष्टनिदानान्याह । “पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च । अर्शांसि षट्प्रकाराणि विद्याद्गुदवलित्रये” ॥ केचिद्रुधिरस्यापि दोषत्वं मन्यन्ते । तन्मतमाश्रि- ग्राह । शोणितादिति । सहजानि शरीरेण सह जातानि । सङ्ख्याञ्चाह । षट्प्रकाराणीति । गुद- वलित्रये सार्द्धचतुरङ्गुलं गुदस्य मानं तस्यावयव- भूतास्तिस्रो वलयः शङ्खावर्त्तनिभा उपर्य्युपरि सन्ति । तासां नाम प्रवाहिणी विसर्जनी संव- रणी चेति । तत्र गुदौष्ठोऽर्द्धाङ्गुलमानस्तदूर्द्ध्व- मङ्गुलमाना प्रथमा वलिः । सार्द्धैकाङ्गुलमाना द्वितीया । तृतीया च तावती । उक्तञ्च । “अर्द्धाङ्गुलप्रमाणेन गुदौष्ठं परिचक्षते । गुदौष्ठादङ्गुलं चैकं प्रथमान्तु वलिं विदुः ॥ सार्द्धैकाङ्गुलमानेन पृथगन्ये प्रकीर्त्तिताः” ॥ * ॥ अथ वातार्शसो विप्रकृष्टं निदानमाह । “कषायकटुतिक्तानि रूक्षशीतलघूनि च । प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथूनसेवनं ॥ लङ्घनं देशकालौ च शीतौ व्यायामकर्म्म च । शोको वातातपस्पर्शो हेतुर्व्वातार्शसां मतः” ॥ समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः । सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके” ॥ समङ्गा लज्जालुः । मोचाह्वो मोचरसः । तिरीटो लोध्रः । चन्दनमत्र रक्तं । समङ्गादिदुग्धं ॥ ७ ॥ “भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः । बन्धनात् सुदृढं सूत्रं छिनत्त्यर्शोभगन्दरं” ॥ क्षारसूत्रं ॥ ८ ॥ “नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि । क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदितां ॥ चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना । वेगावरोधस्त्रीपृष्ठयानान्युत्कटकाशनं ॥ यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत्” । इत्यर्शोऽधिकारः ॥ * ॥ इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=अर्शः&oldid=113523" इत्यस्माद् प्रतिप्राप्तम्