अर्हन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्हन्, [त्] पुं, (अर्हः प्रशंसायां शतृ ।) क्षपणकः । बुद्धः । इति मेदिनी ॥ शेषस्य पर्य्यायः । जिनः २ पारगतः ३ त्रिकालवित् ४ क्षीणाष्ट- कर्म्मा ५ परमेष्ठी ६ अधीश्वरः ७ शम्भुः ८ स्वयम्भूः ९ भगवान् १० जगत्प्रभुः ११ तीर्थङ्करः १२ तीर्थकरः १३ जिनेश्वरः १४ वादी १५ अभयदः १६ सार्व्वः १७ सर्व्वज्ञः १८ सर्व्वदर्शी १९ केवली २० देवाधिदेवः २१ बो- धदः २२ पुरुषोत्तमः २३ वीतरागाप्तः २४ । इति हेमचन्द्रः ॥
अर्हन्, (त्) त्रि, (अर्ह + शतृ ।) पूज्यः । मान्यः । इति मेदिनी ॥ स्तुतः । इति शब्दरत्नावली ॥ (“यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते” । इति कुमारसम्भवे । “त्वमर्हतामग्रसरः स्मृतोऽसि नः” । इति शाकुन्तले ।)
