सामग्री पर जाएँ

अलर्कः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्कः, पुं, (अलमर्कतेऽर्च्यते वा, अर्क + अच्, अर्च + घञ् वा ।) क्षिप्तकुक्कुरः । (“आलर्कं विष- मिव सर्व्वतः प्रसुप्तम्” । इति उत्तरचरिते ।) श्वेतार्कवृक्षः । शादा आकन्द इति भाषा । (अस्य पर्य्यायान्तरं गुणान्तरञ्च यथा -- “अलर्को गुणरूपः स्यान्मन्दारो वसुकोपि च । श्वेतपुष्पः सदापुष्पः सबालार्कः प्रतापसः ॥ रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः । रक्तपुष्पः शुक्लफलस्तथास्फोटः प्रकीर्त्तितः ॥ अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् । निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्क्रिमीन् ॥ अलर्ककुसुमं वृष्यं लघुदीपनपाचनं । अरोचकप्रसेकार्शःकासश्वासनिवारणम्” ॥ इति भावप्रकाशः ॥ “दुष्टकर्द्दमसंस्पर्शाः कण्डूक्लेदान्वितान्तराः” । अङ्गुल्योऽलस मित्याहुः ॥ इति वाभटः ॥) तत्पर्य्यायः । प्रतापसः २ राजार्कः ३ गणरूपी ४ । इति रत्नमालामरौ ॥ शूकराकाराष्टपादतीक्ष्ण- दन्तसूच्याकृतिलोमजन्तुविशेषः । दंशनामासुरो भृगुशापात् अयं जन्तुर्भूत्वा कर्णस्योरुं भित्त्वा परशुरामदृष्टिपातात् शापमुक्तः पूर्ब्बरूपो बभूव । इति महाभारते राजधर्म्मे ॥ (“ददर्श रामस्तं चापि कृमिं शूकरसन्निभं । अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतं ॥ रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः । सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः । पुरा देवयुगे तात ! भृगोस्तुल्यवया इव । सोऽहं भृगोः सुदयितां भार्य्यामपहरं बलात् ॥ महर्षेरभिशापेन कृमिभूतोऽपतं भुवि” । स्वनामख्यातो नृपतिः । “शैव्यः शेनकपोतीये स्वमांसं पक्षिणे ददौ । अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्” ॥ इति रामायणे । स्वनामख्यातः काशिराजः, स हि वत्सराजस्य पुत्त्रः सन्नतेश्च पिता, यथा हरिवंशे, -- “वत्सपुत्त्रस्त्वलर्कस्तु सन्नतिस्तस्य चात्मजः । अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । तस्यासीत् सुमहद्राज्यं रूपयौवनशालिनः” ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्कः [alarkḥ], 1 A mad dog or one rendered furious.

A fabulous animal like a hog with eight legs. अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् । रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः Mb.12.3.13.

A kind of worm.

N. of a plant (श्वेतार्क; Mar. पांढरी रुई).

"https://sa.wiktionary.org/w/index.php?title=अलर्कः&oldid=209176" इत्यस्माद् प्रतिप्राप्तम्