सामग्री पर जाएँ

अलसक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलसकः, पुं, (न लस्यति अनेन, लस + करणे वुन् ।) उदररोगविशेषः । इति माधवकरः ॥ तस्य रूपं “कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति । निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ॥ वातवर्च्चोनिरोधाश्च यस्यात्यर्थं भवेदपि । तस्यालसकमाचष्टे तृष्णोद्गारौ तु यस्य च” ॥ तन्त्रान्तरे । “प्रयाति नोर्द्ध्वं नाधस्तादाहारो न च पच्यते । आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः” ॥ अस्य लक्षणं चिकित्सा च अजीर्णशब्दे द्रष्टव्या ॥ (अलसकमुपदेक्ष्यामः । दुर्ब्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्ष शीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्ले- ष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न वहिर्मुखी भवति । ततश्छर्द्यतीसारवर्ज्यान्याम- प्रदोषलिङ्गान्यभिदर्शयति अतिमात्राणि । अति- मात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्य्यगा- गच्छन्तः कदाचित् केवलमेवास्य शरीरं दण्डवत् स्तम्भयन्ति । ततस्तमलसकमसाध्यं ब्रुवते । विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरेव दोष- मामविषमित्याचक्षते भिषजो विषसदृशलिङ्ग- त्वात् । तत्परमसाध्यमाशुकारित्वात् विरुद्धोप- क्रमत्वाच्चेति । तत्र साध्यमामं प्रदुष्टमलसीभूत- मुल्लेखयेत् । पाययित्वा सलवणमुष्णवारि । ततः स्वेदनवर्त्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम् । इति चरकः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलसक¦ पु॰ न लस्यति अनेन लस करणे--बा॰ वुन्।

१ रोगभेदे। यथाह सुश्रुतः
“अजीर्ण्णमामं विष्टब्धं विदग्धं च यदी-रितम्। विसूच्यलसकौ तस्माद्भवेताम्” इत्युपक्रम्य
“कुक्षि-रानह्यतेऽत्यर्थं ताम्यत्यत्यर्थं च कूजति। निरुद्धोमारुतोवापि कुक्षावुपरि धावति। वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि। तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु”। तन्निरुक्तिरपि अन्यत्र दर्शिता
“प्रयाति नोर्द्धं नाधस्ता-दाहारो न च पच्यते। आमाशयोऽलसीभूतस्तेन सोऽल-सकः स्मृतः”। अलस + स्वार्थे कन्।

२ अलस शब्दार्थे त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलसक¦ mfn. (-कः-का-कं) Indolent. m. (-कः) Flatulence, Tympanitis, in- tumescence of the abdomen, with constipation and wind. E. कन् added to the last.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलसक [alasaka], a. Indolent, idle. -कः Flatulence, intumescence of the abdomen, with constipation and wind; प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते । आमाशयो$लसीभूतस्तेन सो$लसकः स्मृतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलसक/ अ-लसक m. tympanitis , flatulence (intumescence of the abdomen , with constipation and wind) Car Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अलसक&oldid=488772" इत्यस्माद् प्रतिप्राप्तम्