अलावुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अलावुः, पुं, स्त्री, (न लम्बते, न + लवि ऊर्णित् नलो- पश्च वृद्धिः ।) लताविशेषः तत्फलञ्च । लाउ इति ख्याता । तत्पर्य्यायः । तुम्बः २ तुम्बकः ३ तुम्बा ४ तुम्बी ५ पिण्डफला ६ महाफला ७ आलावुः ८ एलावुः ९ लावुः १० लावुका ११ । इत्यमरः तट्टीका च ॥ तुम्बिका १२ तुम्बिः १३ अलावुः १४ । इति शब्दरत्नावली ॥ अस्या गुणाः । “अलावुः कथिता तुम्बी द्विधा दीर्घा च वर्त्तुला मिष्टं तुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु ॥ वृष्यं रुचिकरं प्रोक्तं धातुपुष्टिविवर्द्धनं” । इति भावप्रकाशः ॥ भेदकत्वं कफकारित्वं । गुरु- पाकित्वं । हिमत्वं । पित्तनाशित्वञ्च । तन्नाडी- गुणाः । गुरुत्वं । मधुरत्वं ॥ मलभेदकत्वं । वात- श्लेष्मकारित्वं । रूक्षत्वं । शीतलत्वं । पित्त- नाशित्वञ्च । इति राजवल्लभः ॥ (“वर्च्चोभेदीन्यलावूनि रूक्षशीतगुरूणि च” । इति चरकश्च । “अलावुर्भिन्नविट्का तु रूक्षागुर्व्यतिशीतलां” । इति च सुश्रुतः ॥)
