अलिन्दः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अलिन्दः, पुं, (अलते भूष्यते, अल + कर्म्मणि बाहुलकात् किन्दच् ।) वहिर्द्वारसंलग्नचतुरस्र- कृत्रिमभूमिः । तत्पर्य्यायः । प्रघाणः २ प्रघणः ३ वहिर्द्वारप्रकोष्ठः ४ आलिन्दः ५ । इत्यमरः ॥ गृह- द्वारपिण्डकः । अलिन्दः नाम्नीति अलञ् इन्द ह्रस्वादिः । यस्यामलिन्देंषु न चक्रुरेवेति माघः । स्वार्थे ष्णे आलिन्दो दीर्घादिरपि । “गृहैकदेशे आलिन्दः प्रघाणःप्रघणस्तथा” । इत्यमरदत्तः । अथ पिण्डक आलिन्द इति हड्डः । इह तूभयमेव श्लेषादिति साज्झः । इत्यमरटीकायां भरतः ॥ * ॥ अन्यच्च । “प्रघाणप्रघणालिन्दा द्वारवाह्यप्रकोष्ठके । गृहाभ्यन्तरशय्यार्थपिण्डिकायामपि त्रयं ॥ आलिन्दः स्यादलिन्दोऽपि स्यादलिन्दक इत्यपि” । इति शब्दरत्नावली ॥ (“शुकाङ्गनीलोपलनिर्म्मितानां लिप्तेषु भासा गृहदेहलोनां । यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥” इति माघः ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अलिन्दः [alindḥ] अलिन्दकः [alindakḥ], अलिन्दकः [अल्यते भूष्यते, अल्-कर्मणि-किंदच्]
A terrace before a housedoor; मुखालिन्दतोरणम् M.5, Dk.74.
A place (like a square) at the door.
(pl.) N. of a country or its inhabitants; or its ruler also.
