अल्पकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अल्पकः, पुं, (अल्प एव, अल्प + स्वाथ कन् ।) यवासवृक्षः । इति राजनिर्घण्टः ॥ अस्य गुणाः ॥ “यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः । कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् ॥ तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः । यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा” ॥ इति भावप्रकाशः ।) (स्वल्पपरिमितः । किञ्चित् । “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्” ॥ इति मनुः ।)
