सामग्री पर जाएँ

अवगाहनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवगाहनम्, क्ली, (अव + गाह + भावे ल्युट् ।) स्नान- करणं । तत्पर्य्यायः । अवगाहः २ वगाहः ३ मज्जनं ४ (“कन्दर्पबाणानलैर्दग्धानामवगाहनाय विधिना रम्यं सरो निर्म्मितम्” । इति शृङ्गार- तिलके ।) निमज्जनं ५ । डुव दिया नाओया इति भाषा । शिरःस्नानं । अम्भसि मज्जनं । यथा । अवगाहनन्तु चक्षुःकर्णनासिकामङ्गुलीमिरा- च्छाद्य कुर्य्यात् । “अङ्गुलीभिः पिधायैवं श्रोत्रदृङ्नासिमामुखं । निमज्जेत प्रतिस्रोतस्त्रिः पठेदघमर्षणं” ॥ इति समुद्रकरधृतात । अत्रानुद्धृते वारत्रय- मेवावगाहनं । “नाभिमात्रजले गत्वा कृत्वा केशान् द्विधा द्विजः । निरुध्य कर्णौ नासाञ्च त्रिःकृत्वो मज्जनं ततः” ॥ इति वामनपुराणात् । इत्याह्निकाचारतत्त्वं ॥ अन्यत् स्नानशव्दे द्रष्टव्यं ॥ * ॥ श्राद्धीयब्राह्मणस्य श्राद्धकर्त्तुरपि अवगाहनस्नानकर्त्तव्यत्वं । यथा गो- भिलः । “स्नातान् शुचीन् आचान्तान्” इत्यादि । स्नातान् अवगाहितान् न तु मन्त्रादिस्नातान् । स्वयमपि सूतकादिरहितः स्नातः । इति श्राद्ध- तत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अवगाहनम्&oldid=113724" इत्यस्माद् प्रतिप्राप्तम्