अवगोरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवगोरणम्, क्ली, (अव + गुर उद्यमे + ल्युट् ।) ताडनार्थदण्डादीनामुद्यम इति ब्राह्मणं ॥ मा- रिवार निमित्ते ठेङ्गा उठान इति भाषा । यथा प्रायश्चित्तविवेके । “दण्डनिपातप्रायश्चित्तेनैव गु- रुणा तन्नान्तरीयकावगोरणप्रायश्चित्तमपि सम्प- द्यतैत्युक्तं । ननु दण्डनिपातप्रायश्चित्तात् तदन्तः- पातिनोऽवगोरणप्रायश्चित्तस्य कथं सिद्धिः । तथाहि मनुः । अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । अव- गूर्य्य ब्राह्मणताडनार्थं दण्डमुद्यम्य शतयातना- जनकं यत् पापमुत्पादितं तत्क्षयकामः कृच्छ्र- प्राजापत्यव्रतं चरेत् । तदुक्तं संयुधिकरणे । शंयोः प्रजापतेः प्रार्थनया देवैर्ब्राह्मणावगोरणफलत्वेन शतयातनाभिहिता । तथा च श्रुतिः । शंयुः प्रजापतिः प्रजाविनेता प्रजाहिते रतश्च देवानां हविर्वहन् आशिषोऽयाचत । देवास्त्ववगोरणे शतयातनास्त्वित्याशिषोऽददतेति । शास्त्रदीपि- कादौ दर्शपौर्णमासप्रकरणे । देवा वै शंयुं वार्ह- स्पत्यमब्रुवन् हव्यं नो बहेति किं मे प्रजाया इति तेऽब्रुवन् यो ब्राह्मणायावगुरेत्तं शतेन यातयेत् यो निहन्यात् तं सहस्रेण यो लोहितमकरोत् यावतः पांशून् व्यनक्ति तावतः परिवत्सरान् स स्वर्गात्प्रच्यवेत । तस्मात् ब्राह्मणान् नावगुरेत् न हन्यात् न लोहितं कुर्य्यात् इति” । इतिहासा- त्मकं ब्राह्मणञ्च । इति प्रायश्चित्ततत्त्वं ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवगोरण¦ n. (-णं) Assailing with weapons, assaulting with intent to kill. E. अव, गुर् or गूर् to assault, ल्युट् aff. [Page063-b+ 60]
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवगोरण/ अव-गोरण n. menacing Gaut. etc.
