सामग्री पर जाएँ

अवच्छिन्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवच्छिन्नम्, त्रि, (अव + छिद् + क्त ।) अवच्छेदकता- निरूपकं । विशिष्टं । इति न्यायभाषा । अवच्छे- दाश्रयः । यथा । प्रतियोग्यसमानाधिकरणयत्- सामानाधिकरणात्यन्ताभावप्रतियोगितावच्छेद- कावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधि- करण्यंव्याप्तिः । इति सिद्धान्तलक्षणचिन्तामणिः ॥ (“जलाशये महाकाशस्तदवच्छिन्नमेव हि । बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ॥ साभासबुद्धेः कर्तृत्वमवच्छिन्ने विकारिणि” । इति अध्यात्मरामायणे ।)

"https://sa.wiktionary.org/w/index.php?title=अवच्छिन्नम्&oldid=113754" इत्यस्माद् प्रतिप्राप्तम्