अवच्छेदक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवच्छेदकम्, त्रि, (अवच्छिनत्ति, अव + छिद् + ण्वुल् ।) न्यायमते अव्याप्यवृत्त्यधिकरणसम्बन्धैक- देशः । इतरव्यावर्त्तकः । विशेषणं । अवच्छिद्यते- ऽनेनेति यथा । अव्याप्यवृत्तेरवच्छेदकत्वमपि स्व- रूपसम्बन्धविशेषः तदाश्रयावच्छेदकः । इति- न्यायशास्त्रं ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवच्छेदक¦ त्रि॰ अवच्छिन्नति अव + छिद--ण्वुल्।
१ छेदके
२ इयत्ताकारके
३ सीमाकारके
४ अवधारके
५ अव्याप्यवृत्तितानिरूपके च। अवच्छिन्नशब्दे विवृतिः।
“प्रतियोगिताव-च्छेदकावच्छिन्नमिति” चिन्तामणिः। अबच्छेदकत्वं च अव-दके इव तदवच्छेदकेऽपि स्वीक्रियते यथा वह्निमान् पर्व्वतइति बुद्धौ वह्न्यभाववान् पर्ब्धत इति निश्चयःप्रतिबन्धकः तत्रप्रतिबन्धकतावच्छेदकं निश्चयत्वमिव तत्तद्विषयताऽपि तत्रा-वच्छेदिका तथा च बह्नित्वावच्छिन्नप्रकारतानिरूपितपर्व्वत-त्वावच्छिन्नविशेष्यताशालिज्ञानत्वावच्छिन्नं प्रति वह्नित्वाव-च्छिन्नप्रकारतानिरूपिताभावत्वावच्छिविशेष्यतासमानाधि-करणप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनि-श्चयत्वेन प्रतिबन्धकत्वे निश्चयत्वस्येव तत्तद्विषयताया अपितत्प्रतिबन्धकतावच्छेदकत्वं तथा तादृशज्ञानत्वस्येव तत्तद्विष-यताया अपि प्रतिबध्यतावच्छेदकत्वम्। इयांस्तुभेदः अनुल्ले-ख्यमानजातेः स्वरूपतोऽवच्छेदकत्वं न तदवच्छेदकताया अव-च्छेदकमस्ति तेन घटवद्भूतलमिति बुद्धौ घटत्वनिष्ठप्रका-रतावच्छेदकताया नान्यदवच्छेदकम् तथाच यथा घटनिष्ठ-प्रकारताया अवच्छेदकम् घटत्वम् एवं घटत्वनिष्ठप्रकारतायानान्यदवच्छेदकमतस्तस्य निरच्छिन्नावच्छेदकता अनु-ल्लिख्यमानेत्युक्तेरुल्लिख्यमानजातेर्नस्वरूपतोऽवच्छेदकत्वं तेनघटत्ववत्त्वान् देश इत्यादौ घटत्वप्रकारताया अवच्छे-दकमस्तीति। अत्राप्ययंविशेषः धर्म्म्यंशे भाममानधर्म्मःविशेष्यतावच्छेदकः प्रकारांशे भासमानः प्रकारताच्छेदकएवंसर्व्वत्र। किन्तु प्रतियोग्यंशे भासमानधर्म्मस्य न प्रतियो-गितावच्छेदकत्वमपि तु अतिप्रसङ्गाद्यनापादकस्यैव घर्मस्यतथात्वं यथा कम्बुग्रीवादिमान्नास्ति इत्याद्यभावबुद्धौघटत्वस्यैव प्रतियोगितावच्छेदकत्वम्
“सम्भवति लघौ[Page0421-a+ 38] धर्म्मे गुरो तदभावात्” दीधित्युक्तेः शक्यतावच्छेदकत्वंविषयतावच्छेदकत्ववत् गुरुधमस्यापि स्वीकृतमाकरे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवच्छेदक¦ mfn. (-कः-का-कं)
1. Peculiar, distinguishing, that which se- parates.
2. Bounding, separating one thing from another. m. (-कः)
1. A predisate, a property.
2. A barrier, a boundary. E. कन् added to the last.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवच्छेदक [avacchēdaka], a.
Separating.
Determining, deciding, प्रतियोगिकावच्छेदकावच्छिन्नम्
Bounding, limiting,
Pervading.
Distinguishing, particularizing.
Peculiar, characteristic.
कः That which distinguishes.
A predicate, characteristic property.
Boundary, limit.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवच्छेदक/ अव-च्छेदक mfn. distinguishing , particularising , determining
अवच्छेदक/ अव-च्छेदक m. " that which distinguishes " , a predicate , characteristic , property L.