सामग्री पर जाएँ

अवच्छेदकत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवच्छेदकत्वम्, क्ली, (अवच्छेदकस्य भावः, भावार्थे त्व ।) स्वरूपसम्बन्धविशेषः । यथा । घटकञ्चावच्छेदकत्वं स्वरूपसम्बन्धविशेषः । इत्यवच्छेदकत्वनिरुक्तौ शि- रोमणिः ॥ अनतिरिक्तवृत्तित्वं । यथा । अव- च्छेदकत्वञ्च इहानतिरिक्तवृत्तित्वं । तेन विशिष्ट- स्यासत्वेपि भ्रमात् प्रतिबन्धेऽपि न क्षतिः । इति सामान्यनिरुक्तौ शिरोमणिः ॥ अन्यूनानतिरिक्त- वृत्तित्वं । यथा । ननु तादृशप्रतियोगित्वान्यूना- नतिरिक्तवृत्तित्वं वाच्यं । वह्नित्वं न घटवृत्ति तादृशप्रतियोगित्वान्यूनानतिरिक्तवृत्ति अतआह तार्णतार्णेति । इत्यवच्छेदकत्वनिरुक्तौ जगदीशः ॥ अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वं पारिभाषिकं । यथा । तदवच्छिन्नाभाववदसम्बद्धस्वविशिष्टसामा- न्यकत्वं स्वविशिष्टसम्बन्धिनिष्ठाभावप्रतियोगिता- नवच्छेदकतत्कत्वं वा तदनतिरिक्तवृत्तित्वं वक्तव्यं । इति अवच्छेदकत्वनिरुक्तौ शिरोमणिः ॥ अव्याप्य- वृत्तेरवच्छेदकत्वमपि स्वरूपसम्बन्धविशेषः तदा- श्रयावच्छेदकः । तच्चावच्छेदकत्वं इह शिखरिणि नितम्बे हुताशनो न शिखरे इत्यादि प्रतीति- बलात् कुत्रचिदव्याप्यवृत्त्यधिकरणदेशविशेषादि- दानीं गोष्ठे गौर्नतु गृहे इत्यादिप्रतीतिबलात् कुत्रचित् देशवृत्तितायाः काले कुत्रचित् काल- वृत्तिताया देशे अप्यस्ति । इति न्यायशास्त्रं ॥

"https://sa.wiktionary.org/w/index.php?title=अवच्छेदकत्व&oldid=113763" इत्यस्माद् प्रतिप्राप्तम्