अवतारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवतारः, पुं, (अव + तॄ + करणे घञ् ।) अवतरणं । पुष्करिण्यादिः । तीर्थः । इति मेदिनी ॥ (सोपान- पद्धतिः । प्रस्तावना । आभासः । उपक्रमणिका । यथा । “दूरे गुरुप्रथितवस्तुकथावतारः” । इति शान्तिशतके ।) देवानां विशेषतोविष्णोर्मूर्त्त्यन्तरेण पूर्णांशावेशरुपेण पृथिव्यामवतरणं । अवतारास्त्र- संख्येयाः तेष्वेते प्रसिद्धाः । ब्रह्मा १ वराहः २ नारदः ३ नरनारायणौ ४ कपिलः ५ दत्तात्रेयः ६ यज्ञः ७ ऋषभदेवः ८ पृथुः ९ मत्स्यः १० कूर्म्मः ११ धन्वन्तरिः १२ मोहिनी १३ नृसिंहः १४ वामनः १५ परशुरामः १६ वेदव्यासः १७ रामः १८ बलरामः १९ कृष्णः २० बुद्धः २१ कल्की २२ ॥ इति श्रीभागवते ॥ यथा, -- “सएव प्रथमं देवः कौमारं सर्गमाश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितं ॥ द्वितीयन्तु भवायास्य रसातलगतां महीं । उद्धरिष्यन्नुपादत्त यज्ञेशः शौकरं वपुः ॥ तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्मं कर्म्मणां यतः ॥ तुर्य्ये धर्म्मकला सर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ पञ्चमः कपिलोनाम सिद्धेशः कालविप्लुतं । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयं ॥ षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया । आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ततः सप्तम आकूत्यां रुचेर्य्यज्ञोऽभ्यजायत । स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरं ॥ अष्टमे मेरुदेव्यान्तु नाभेर्जात उरक्रमः । दर्शयन् वर्त्म धीराणां सर्व्वाश्रमनमस्कृतं ॥ ऋषिभिर्य्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे । नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुं ॥ सुरासुराणामुदधिं मथ्नतां मन्दराचलं । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ धान्वन्तरं द्वादशमं त्रयोदशममेव च । अपाययत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया ॥ चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितं । ददार करजैरूरावेरकां कटकृद्यथा ॥ पञ्चदशं वामनकं कृत्वागादध्वरं बलेः । पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपं ॥ अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीं ॥ ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्य्याण्यतः परं ॥ एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरत् भरं ॥ ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषां । बुद्धोनाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ अवतारा ह्यसंख्येया हरेः सत्वनिधेर्द्विजाः । यथा विदासिनः कुल्याः सरसःस्युः सहस्रशः ॥ ऋ षयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्व्वे हरेरेव सप्रजापतयः स्मृताः ॥ एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयं । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे” ॥ इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ (दश- अवतारा एव प्रधानतया प्रसिद्धाः । ते च यथा, -- “मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च रामश्च बुद्धः कल्की च ते दश” ॥) (आविर्भावः । जन्म । उत्पत्तिः । यथा, -- “अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम्” । इति रघुः । अपसारणं । हरणं । यथा, -- “भूमेर्भारावताराय ब्रह्मणाप्रार्थितः पुरा । स एव जातो भवने कौशल्यायां तवानघ” ॥ इति अध्यात्मरामायणे ।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवतारः [avatārḥ], [अव-तृ करणे घञ्]
Descent, alighting; descending or going down into; (fig) accepting, resorting to पाखण्डिपथावतारः Dk.47; advent, setting in; वसन्तावतारसमये Ś.1.
Form, manifestation; मत्स्यादिभि-वतारैरवतारवता$वसुधाम् Śaṅkara.
Descent of a deity upon earth, incarnation in general; को$प्येष संप्रतिवः पुरुषावतारः U.5.33; धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् R.1.84; ऋष्यवतारो$यं नृपतिः Ks.7.18.
An incarnation of Viṣṇu; विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे Bh. 2.95. (There are ten incarnations of Viṣṇu; the following verse from Gīt. describes them; वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ मत्स्यः कूर्मो वराहश्च नरसिंहो$थ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ॥ Varāh. P.
Any new appearance, growth, rise; नवावतारं कमलादिवोत्पलम् R. 3.36; परीवादनवावतारः 5.24; यौवनावतारे K.289; Ve.3; Śānti.2.26;3.14; Ks.8.3;
Any distinguished person (who, in the language of respect, is called an अवतार or incarnation of a deity).
Aiming at object.
A landing place; रुद्धे गजेन सरितः सरुषावतारे Śi.5.33.
A sacred bathing place.
Translation.
A pond, tank,
Introduction, preface.
Crossing; ˚रं लभ् To gain one's object (with gen.).-Comp. -कथा account of an अवतार, N. of a chapter in शङ्करविजय. -मन्त्रः the prayer causing the descent of a deity.
