सामग्री पर जाएँ

अवद्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवद्यम्, त्रि, (न वदति परं गुणं, अवद्यावमाधमार्व्व- रेफाः कुत्सिते इति वदेर्नञि कर्त्तरि यत् ।) अधमं । कुत्सितं । गर्हितं । निकृष्टं । इत्यमरः ॥

अवद्यम्, क्ली, अनिष्टं । इति वोपदेवः ॥ पापं । इति पाणिनिः ॥ (“उदवहदनवद्यां तामवद्यादपेतः” । इति रघुवंशे ।)

"https://sa.wiktionary.org/w/index.php?title=अवद्यम्&oldid=113814" इत्यस्माद् प्रतिप्राप्तम्