अवधूतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवधूतः, पुं, (अव + धू + क्तः ।) सन्न्यासाश्रमी । तद्विधानं सन्न्यासिशब्दे द्रष्टव्यं । तद्भेदा यथा । देव्युवाच । “द्विविधावाश्रमौ प्रोक्तौ गार्हस्थ्यो भैक्षुकस्तथा । किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः ॥ एतद्वेदितुमिच्छामि तत्त्वतः कथय प्रभो । चतुर्व्विधावधूतानां लक्षणानि विशेषतः ॥ सदाशिव उवाच । ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः । गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ॥ पूर्णाभिषेकविधिना संस्कृता ये च मानवाः । शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्च्चिते ॥ ब्रह्मावधूतः शैवाश्च साग्रिमाचारवर्त्तिनः । विदध्युः सर्व्वकर्म्माणि शश्वदीरितवर्त्मना ॥ विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना । निषिद्धमन्नं तोयञ्च न गृह्लीयुः कदाचन ॥ ब्रह्मावधूतकौलानां कौलानामभिषेकिणां । प्रागेव कथितो धर्म्म आचारश्च वरानने ॥ स्नानं संन्यासनं पानं दानञ्च दाररक्षणं । सर्व्वमागममार्गेण शैवब्रह्मावधूतयोः” ॥ इति महानिर्व्वाणतन्त्रे १४ उल्लासः ॥ * ॥ अन्यच्च । शङ्कर उवाच । “शृणु देवि प्रवक्ष्यामि अवधूतो यथा भवेत् । वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः ॥ यद्रूपं कथितं सर्व्वं सन्न्यासधारणं परं । तद्रूपं सर्व्वकर्म्माणि प्रकुर्य्याद्वीरवल्लभं ॥ दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा । तथा नैव प्रकुर्य्यात्तु वीरस्य मुण्डनं प्रिये ॥ असंस्कृतं केशजालमुक्तालम्बिकचोच्चयं । अस्थिमाला विभूषा वा रुद्राक्षानपि धारयेत् ॥ दिगम्बरो वा वीरेन्द्रश्चाथ वा कौपिनी भवेत् । रक्तचन्दनसिक्ताङ्गं कुर्य्याद्भस्माङ्गभूषणं” ॥ रति निर्व्वाणतन्त्रे १४ पटलः ॥ * ॥ अपिच । “नृकरोटिं विधार्य्यञ्च काष्ठदण्डं तथा प्रिये । परशुञ्चाजिनञ्चैव योगीव धारयेत् सदा ॥ खट्टाङ्गं धारयेद्योगी वासरूपकवाससी । कपाले धारयेच्चन्द्रं चन्दनाद्यैर्व्विशेषतः ॥ ईषत् पिङ्गलकं वस्त्रं धारयेत् सर्व्वदा सुत” । सुत इति शिवस्य सम्बोधनं । सुदर्शनाख्यं यच्चक्रं तत्तु संधारयेद्बुधः ॥ विपञ्चीं कपिलञ्चैव मड्डडिण्डिमझर्झरान् । वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः” ॥ इति योगसारे २ परिच्छेदः ॥ * ॥ अपरञ्च । “क्षमा दानं तपो ध्यानं बालभावेन शैलजे । शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः ॥ एवं भावपरो मन्त्री हेतुयुक्तः सदाशिवः । ओम् तत् सदिति मन्त्रेण कर्म्मकर्त्तव्यतामाह । “ओ~ तत्सन्मन्त्रमुच्चार्य्य सोऽहमस्मीति चिन्तयन् । कुर्य्यादात्मोचितं कर्म्म सदा वैराग्यमाश्रितः ॥ कुर्व्वन् कर्म्माण्यनासक्तो नलिनोदलनीरवत् । यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः” ॥ * ॥ सर्व्वेषामोम् तत्सदिति निर्देशेन कर्म्मफलमाह । “ओ~ तत्सदिति मन्त्रेण यो यत्कर्म्म समाचरेत् । गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत्” ॥ * ॥ तन्मन्त्रक्रियमाणकर्म्मणः सम्पूर्णत्वमपि । “जपहोमप्रतिष्ठा च संस्काराद्यखिलाः क्रियाः । ओ~ तत्सदिति निष्पन्नाः संपूर्णाः स्युर्न संशयः ॥ किमन्यैर्ब्बहुभिर्म्मन्त्रैः किमन्यैर्भूरिसाधनैः । ब्राह्म्येणानेन मन्त्रेण सर्व्वकर्म्माणि साधयेत् ॥ सुखसाध्यमबाहुल्यं संपूर्णफलदायकं । नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके ॥ पुरप्रदेशे देहे वा लिखित्वा धारयेदिमं । गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत् ॥ निगमागमतन्त्राणां सारात् सारतरो मनुः । ओ~ तत्सदिति देवेशि तवाग्रे सत्यमीरितं ॥ चतुर्व्विधानां तत्त्वानामन्येषामपि वस्तुनां ॥ मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितं ॥ पश्यन् सर्व्वत्र सद्रूपं जपंस्तत् सन्महामनुं । स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् ॥ जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् । साक्षाद्ब्रह्ममयो देही सार्थमेनं जपेन्मनुं ॥ त्रिपदोऽयं महामन्त्रः सर्व्वकारणकारणं । साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयं ॥ युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा । जप्त्वैतस्य महेशानि साधकः सिद्धिभाग्भवेत्” । इति मन्त्रप्रशंसा ॥ * ॥ शैवावधूतस्य सर्व्वकर्म्मा- नधिकारमाह । “शैवावधूतसंस्कारविधूताखिलकर्म्मणः । नापि दैवे नवा पित्र्ये नार्षे कृत्येऽधिकारिता” ॥ * ॥ अथ परमहंसः । “चतुर्णामवधूतानां तुरीयो हंस उच्यते । त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्व्वे शिवोपमाः ॥ हंसो न कुर्य्यात् स्त्रीसङ्गं न विधत्ते परिग्रहं । प्रारब्धमश्नन् विहरेत् निषेधविधिवर्जितः ॥ त्यजेत् स्वजातिचिह्नानि कर्म्माणि गृहमेधिनां । तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः ॥ सदात्मभावसन्तुष्टः शोकमोहविवर्ज्जितः । निर्निकेतस्तितिक्षुः स्यान्निःसङ्गो निरुपद्रवः ॥ नार्पणं भक्ष्यपेयानां न तस्य ध्यानधारणा । मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः ॥ इति ते कथितं देवि ! चतुर्णां कुलयोगिनां । लक्षणं सविशेषेण साधूनां मत्स्वरूपिणां ॥ एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् । सर्व्वतीर्थफलावाप्तिर्जायते मनुजन्मनां” ॥ इति महानिर्व्वाणतन्त्रं ॥
