अवभृथः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवभृथः, पुं, (अवभ्रियते अनेन, अव + भृ + क्थन् ।) दीक्षान्तयज्ञः । प्रधानयागसमापका- परयज्ञः । यज्ञादेर्न्यूनाधिक-दोष-शान्ति-निमि- त्तक-शेष-कर्त्तव्य-होम इति यावत् ॥ इत्यमरः तट्टीका च ॥ यज्ञावशेषस्नानं । इति भरतः त्रिकाण्डशेषश्च ॥ (“ततश्चकारावभृथं विधिदृष्टेन कर्म्मणा” इति भारते । “भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि” । इति रघुवंशे ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवभृथः [avabhṛthḥ], [अव-भृ-क्थन् Uṇ.2.3]
The end or completion of a principal sacrifice; तन्मरणमेवास्यावभृथः Bṛi. Up.3.17.5.
Bathing at the end of a principal sacrifice for purification; नावभृथं सरस्वत्याम् Kāty.; भुवं कोष्णेन कृण्डोध्नी मेध्येनावभृथादपि R.1.84; प्रीत्याश्वमेधावभृथार्द्रमूर्तेः 6.61;9.22; 11.31;13.61; Y.3.244; Ms.11.82.
Purification by bathing of the sacrificer and the sacrificial vessels at the end of a sacrifice; अच्छावभृथमोजसा Rv.8. 93.23.
The water of purification.
A supplementary sacrifice to atone for defects in a principal and preceding one; a sacrifice in general; स्नातवत्यवभृथे तत- स्त्वयि Śi.14.1. -Comp. -स्नपनम्, -स्नानम् ablution after a sacrificial ceremony; Bhāg.
