अवरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरः, त्रि, (न व्रियते इति वृञ्वरणे + ग्रहवृ- द्रिति अप् ।) चरमः । इति मेदिनी । कनिष्ठः । अश्रेष्ठः । यथा, -- “श्रीर्नेशेन विना शम्भुः पृथग्विश्वेन तत्पुनः । न नाना शम्भुना रामाद्वर्षेणाधोक्षजोऽवरः” ॥ इति मुग्धबोधव्याकरणे वोपदेवः ॥ निकृष्टः । यथा, -- “दूरेण ह्यवरं कर्म्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः” ॥ इति श्रीभगवद्गीतायां २ अध्याये ४९ श्लोकः ॥
