सामग्री पर जाएँ

अवलेहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवलेहः, पुं, (अवलिह्यते क्वाथादेः पुनः पाकात् घनीभूततया स्वाद्यते इति अव + लिह + कर्म्मणि घञ् ।) लेह्यौषधं । तस्य लक्षणं पर्य्यायश्च यथा, -- “क्वाथादेर्यत् पुनः पाकात् घनत्वं सारसक्रिया । सोऽवलेहश्चलेहश्च प्राश इत्युच्यते बुधैः” ॥ (“जिह्वालेह्यावलेहिका”) इति च वैद्यकपरि- भाषा । यथा, -- “कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी । श्लक्ष्णचूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥ एषावलेहिका हन्ति सन्निपातं सुदारुणं । हिक्कां श्वासञ्च कासञ्च कण्ठरोगञ्च नाशयेत् ॥ एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः” । तन्त्रान्तरे च उक्तं । “अष्टाङ्गं मधुना लिह्यादार्द्रकस्य रसेन वा । संमोहं दारुणं हन्यात्तन्द्राकाससमन्वितम्” इति ॥ “सर्व्वेषु सन्निपातेषु न क्षौद्रमवचारयेत् । शीतोपचारि क्षौद्रं स्याच्छीतञ्चात्र विरुध्यते” ॥ अयमभिप्रायः । सन्निपातज्वरेषु श्लेष्मनिग्रहार्थं सर्व्वदा स्वेदो हित उक्तः । तत्राग्निसम्बन्धाद्देह- स्योष्णता तिष्ठेदेव । उष्णेण मधुना विरोधः । उक्तञ्च सुश्रुतेन । “उष्णैर्विरुध्यते सर्वं विषाम्ययतया मधु । उष्णात्तमुष्णैरुष्णञ्च तन्निहन्ति यथा विषं” इति ॥ शीतोपचारि क्षौद्रमिति । शीतेनोपचारोऽस्या- स्तीति शीतोपचारि । शीतञ्चात्र सन्निपाते विरुध्यते । अयमवलेहः प्रायेणोर्द्ध्वजत्रुजरोग- हरत्वात् सायमुपयुज्यते । यत उक्तं चरकेण । “ऊर्द्ध्वजत्रुगदघ्नी या सा सायमवलेहिका । अधोरोगहरी या सा भोजनात्प्राक् प्रयुज्यते” । पौष्करं पुष्करमूलं तदलाभे कुष्ठं देयं ॥ शृङ्गी कर्कटशृङ्गी ! व्योषं शुण्ठीपिप्पलीमरिचानि च । यासो यवासः । केचित् यासस्थाने यवानीं प्रक्षिपन्ति । कारवी मगरेला इति लोके । अष्टा- ङ्गावलेहिका ॥ * ॥ “स्विन्नमामलकं पिष्ट्वा द्राक्षया सह मेलयेत् । विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ॥ तेनास्य शाम्यति श्वासः कासो मूर्च्छारुचिस्तथा” ॥ इत्यवलेहः ॥ * ॥ अन्यत् यथा, -- “पिप्पलीं त्रिफलाञ्चापि समभागां ज्वरी लिहन् । मधुना सर्पिषा वापि कासी श्वासी सुखी भवेत् ॥ कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह । श्वासकाशज्वरहरो लेहोऽयं कफनाशनः” ॥ चातुर्भद्रिका ॥ * ॥ “कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा । कटुत्रयञ्च सर्व्वाणि समभागानि चूर्णयेत् ॥ आर्द्रकस्य रसैर्ल्लिह्यान्मधुना वा कफज्वरी । कासश्वासारुचिच्छर्द्दिश्लेष्मानिलनिवृत्तये” ॥ अष्टाङ्गावलेहः । इति भावप्रकाशः ॥ (“क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारसक्रिया । सोऽवलेहश्च लेहः स्यात् तन्मात्रा स्यात्पलोन्मिता ॥ सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः । द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥ सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सुमज्जनं । स्थिरत्वं पीड्यते मुद्रा गन्धवर्णरसोद्भवः ॥ दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकं । वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते ॥ * ॥ तदुदाहरणं । यथा, -- “कण्टकारीतुलां नीर-द्रोणे पक्त्वा कषायकं । पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥ पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः । मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकं ॥ भार्गी रास्ना शठी चैव शर्करा पलविंशतिः । प्रत्येकञ्च पलान्यष्टौ प्रदद्याद्घृततैलयोः ॥ पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकं । चतुष्पलं तु गोक्षीर्य्या पिप्पलीनां चतुष्पलं ॥ क्षिप्त्वा निदध्यात् सुदृढे मृन्मये भाजने शुभे । लेहोऽयं हन्ति हिक्कार्त्तिश्वासकासानशेषतः ॥ * ॥ कण्टकार्य्यवलेहः ॥ * ॥ इति च शार्ङ्गधरः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवलेहः [avalēhḥ], 1 Licking, lapping.

An extract (as of Soma).

An electuary, confection; दाडिम˚.

"https://sa.wiktionary.org/w/index.php?title=अवलेहः&oldid=210550" इत्यस्माद् प्रतिप्राप्तम्