अवहार्य्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवहार्य्यः, त्रि, (अव + हृ + ण्यत् ।) समर्पणीयः । यथा, -- “आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः । अवहार्य्यौ भवेतां तौ दीर्घकालमवस्थितौ” ॥ इति मानवे ८ अध्याये १४५ श्लोकः ॥ (अर्थ- दण्डयोग्यः । यथा, -- “अवहार्य्यो भवेच्चैव सान्वयः षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्विषं” ॥ इति मनुः ।
