सामग्री पर जाएँ

अवहित्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवहित्था, स्त्री, क्ली, (न वहिस्तिष्ठतीति अवहिः + स्था + क + टाप् । पृषोदरादित्वात् साधुः ।) आकारगुप्तिः । रत्यादिसूचकोमुखरागादिरा- कारः । अङ्गवैकृतमिति वोपालितः ॥ भयलज्जा- दिना तस्य गोपनं । इत्यमरटीकायां भरतः ॥ (तल्लक्षणं, यथा साहित्यदर्पणे, -- “भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था । व्यापारान्तरसक्त्यान्यथाभाषण-विलोकनादि- करी” ॥ उदाहरणम् । यथा कुमारसम्भवे, -- “एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्ब्बती” ॥ लज्जावशात् कमलदलगणनाव्याजेन हर्षं जुगोप इत्यर्थः । अनेन अवहित्थाख्यः सञ्चारी भाव उक्तः, तदुक्तं, -- “अवहित्था तु लज्जादेर्हर्षाद्याकारगोपनं” । इति मल्लिनाथः ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवहित्था स्त्री।

आकारगोपनम्

समानार्थक:अवहित्था,आकारगुप्ति

1।7।34।1।1

अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ। स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव(ब)हित्था¦ स्त्री न बहिस्तिष्ठति स्था--क पृषो॰। हृद्गत-भावे।
“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरबहित्था, व्यापारान्तरासक्त्यन्यथावभाषणाविलोकनादिकरी” सा॰ द॰ उक्तेव्यभिचारिभावभेदे।
“एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखीलीलाकमलपत्राणि गणयामास पार्व्वती” कुमा॰। अयंवर्ग्यबमध्यस्तु न्याय्यः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवहित्था f. id. Das3ar. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=अवहित्था&oldid=489219" इत्यस्माद् प्रतिप्राप्तम्