अवाक्शिराः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवाक्शिराः, [स्] पुं, (अवाक् अवनतं शिरो- यस्य ।) अधोमुखः । यथा, -- “अवाक्शिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्म्मनिश्चये” ॥ इति मानवे ८ अध्याये ९४ श्लोकः ॥ (“इति ब्रुवति रामेतु लक्ष्मणोऽवाक्शिरास्तदा” इति रामायणम् ॥)
