सामग्री पर जाएँ

अवाच्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अवाच्यम्, क्ली, (न + वच + ण्यत् ।) दुर्व्वाक्यं । तत्प- र्य्यायः । अनक्षरं २ । इत्यमरः ॥ वचनानर्हं । अ- नक्षरं गालि प्रभृति इति मधुः । निन्दितान्य- क्षराणि अत्र अनक्षरं अव्ययानामनेकार्थत्वात् नञ् निन्दायां । एवमवाच्यं वक्तुमयोग्यं वच्लौ वाचि हसृष्वासोरिति घ्यण भुजवचेति क- निषेधः ॥ इति भरतः ॥ (“वाच्यावाच्ये हि कुपितो न विजानाति कर्हिचित्” । इति भारते । “अवाच्यं वदतो जिह्वा कथं न पतिता तव” । इति रामायणे ।)

"https://sa.wiktionary.org/w/index.php?title=अवाच्यम्&oldid=114063" इत्यस्माद् प्रतिप्राप्तम्