अविः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविः, पुं, (अव + इन् ।) सूर्य्यः । पर्ब्बतः । मेषः । इत्यमरः ॥ (“श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां” । इति मनुः ।) “मूत्राणि हस्तिकरभमहिषीखरवाजिनां । गोजावीनां स्त्रियां पुंसां मूत्रवर्ग उदाहृतः” ॥ इति वैद्यकरसेन्द्रसारसंग्रहे ॥) नाथः । मूषिककम्बलः । इति मेदिनी ॥ प्राचीरं वायुः । इति दण्डी ॥

अविः, स्त्री, ऋतुमती । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=अविः&oldid=489253" इत्यस्माद् प्रतिप्राप्तम्