अविचारितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविचारितः, त्रि, (न विचारितः । नञ्तत्पुरुषः ।) अकृतविचारः । अविवेचितः । अविचारशब्दादि- तप्रत्ययेन निष्पन्नः ॥ (“अतः सर्व्वथाऽविचारितं कर्म्मन कर्त्तव्यम्” । इति पञ्चतन्त्रम् । अवि- वेचितं मम्यग्विवेचनं विना । यथा, -- “स किं भृत्यः स किं मन्त्री य आदावेव भूपतिम् । युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम्” ॥ इति हितोपदेशः ।)
