अविद्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविद्यः, त्रि, (नास्ति विद्या यस्य सः ।) विद्यारहितः । अविद्वान् । विद्याहीनः । यथा, -- “अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः” । अपि च । कात्यायनः । “नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित्” ॥ इति दायतत्त्वं ॥ अन्यच्च । “अविद्यानान्तु सर्वेषामीहातश्चेद्धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा” ॥ इति मानवे ९ अध्याये २०५ श्लोकः ॥
