सामग्री पर जाएँ

अविनयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अविनयः, पुं, (न विनयः । नञ्तत्पुरुषः ।) विनया- भावः । यथा, -- “बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ वेणो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः । सुदासो यवनश्चैव सुमुखो निमिरेव च” ॥ इति मानवे ७ अध्याये ४०.४१ श्लोकौ ॥ (अशि- ष्टाचारः । यथा, -- “अयमाचारत्यविनयं मुग्धासु तपस्विकन्यकासु” । इति शाकुन्तले ।) अविनीते त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=अविनयः&oldid=114143" इत्यस्माद् प्रतिप्राप्तम्