अविनाभावः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविनाभावः, पुं, (विना व्यापकं विना न भावः स्थिंतिः ।) व्याप्तिः । व्याप्यनिष्ठव्यापकनिरूपित- धर्म्मः । यथा, -- “वह्निमान् धूमात्” इत्यादौ धूमनिष्ठा वह्निनिरूपिता व्याप्तिः ॥ इति न्याय- मीमांसयोर्मतं ॥ तत्पंदार्थे तत्पदार्थाभाववद्वृत्ति- त्वाभावः । यथा । केयमाकाङ्क्षा न तावदविना- भावः । नीलं सरोजमित्यादौ तदभावात् । विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्तेश्च । इत्या- काङ्क्षाचिन्तामणिः । अविनाभाव इति । तत्पदा- र्थेन विना यो भावः सत्त्वं तदभाव इत्यर्थः । तत्पदार्थे तत्पदार्थाभाववद्वृत्तित्वाभावस्तत्पदार्थ तत्पदार्थाकाङ्क्षा इति भावः । इति तट्टीका माथुरी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविनाभावः [avinābhāvḥ], 1 Non-separation.
Inherent or essential character, inseparable connection.
Connection (in general); अविनाभावो$त्र संबन्धमात्रं न तु नान्तरीय- कत्वम् K. P.2.
