अविभाज्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविभाज्यम्, त्रि, (न विभाज्यम् । नञ्तत्पुरुषः ।) विभागायोग्यं । अथ विभाज्याविभाज्ये । तत्र व्यासः । “अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद्धनं । दायादेभ्यो न तद्दद्यात् विद्यालब्धञ्च यद्भवेत्” ॥ * ॥ विद्याधनमाह कात्यायनः । “उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्ब्बकं । विद्याधनन्तु तद्विद्यात् विभागे न नियोजयेत् ॥ शिष्यादार्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् । स्वज्ञानसंशनाद्वादाल्लब्धं प्राध्ययनात्तु यत् ॥ विद्याधनन्तु तत्प्राहुर्विभागे न प्रयोजयेत् । शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकं भवेत् ॥ परं निरस्य यल्लब्धं विद्यया धूतपूर्ब्बकं । विद्याधनन्तु तद्विद्यात् न विभाज्यं वृहस्पतिः” ॥ * ॥ यदि भवान् भद्रमुपन्यस्यति तदा भवत एव मयैतद्देयमिति पणितं यत्रोपन्यासं निस्तीर्य्य लभते तन्न विभाज्यं । शिष्यादध्यापितात् । आ- र्त्विज्यतः यजमानाद्दक्षिणया लब्धधनं न प्रति- ग्रहलब्धं वेतनरूपत्वात्तस्य । तथा यत्किञ्चिद्विद्या- प्रश्ने निस्तीर्णेऽपणितं यदि कश्चित् परितोषा- दृदाति । तथा योऽस्मिन् शास्त्रार्थे अस्माकं संशयमपनयति तस्मै धनमिदं ददानीत्युपस्थितस्य संशयमपनीय यल्लब्धं । वादिनोर्व्वा सन्देहे न्यायकरणार्थमागतयोः सम्यङ्निरूपणेन यल्लब्धं षष्ठांशादिकं तथा शास्त्रादिप्रकृष्टज्ञानं सम्भाव्य यत् प्रतिग्रहादिना लब्धं । तथा शास्त्रज्ञानवि- वादे अन्यत्रापि यत्र कुत्रचिदन्योन्यज्ञानविवादे निर्ज्जित्य यल्लब्धं । तथैकस्मिन् देये बहूनामुप- प्लवे येन प्रहृष्टात् यल्लब्धं । तथा शिल्पादिविद्यया चित्रकरसुवर्णकारादिभिर्यल्लब्धं । तथा द्यूतेनापि रोपयुक्तस्त्रीवाससामपां प्रचाररथ्यानां विभागश्च इति प्रजापतिरिति । यस्मिन् वास्तुनि येन गृहो- द्यानादिकं कृतं अपरेणापि स्थानान्तरे तथा कृत- ञ्चेत् तदा येन यत् कृतं तत्तस्यैव । अन्यत्रा- प्येवं ॥ * ॥ साधारणधनार्ज्जितेऽपि विशेषमाह व्यासः । “साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधं । शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥ तस्य भागद्वयं देयं शेषास्तु समभागिनः” । अत्र भ्रातर इत्युपलक्षणं पितृव्यादयोऽपि बोद्ध- व्याः । तस्यार्जकस्य । साधारणोपघाते यस्य याव- तोऽशस्याल्पस्य महतो वा उपघातस्तस्य तद- नुसारेण भागकल्पना कार्य्येति दायभागः ॥ याज्ञवल्क्यः । “क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः । दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेव च” ॥ पितृपितामहागतं बलादन्यैर्हृतं योऽंश्यन्तराणा- मनुज्ञया उद्धरति तदंश्यन्तरेभ्यो न दद्यात् ॥ * ॥ भूमौ तु विशेषयति शङ्खः । “पूर्ब्बनष्टाञ्च यो भूमिमेक एवोद्धरेत् श्रमात् । यथाभागं भजन्त्यन्ये दत्त्वांशन्तु तूरीयकं” ॥ एतद्वचनं स्मृतिमहार्णवकामधेनुपारिजातप्रभृति- ष्वलिखनादयुक्तमेवेति रत्नाकरः । तन्न, दायभाग- मिताक्षराप्रभृतिभिर्धृतत्वात् । इति दायतत्त्वं ॥
