अविवाह्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविवाह्या, स्त्री, (न विवाह्या । नञ्तत्पुरुषः ।) विवाहानर्हा । यथा । सुमन्तुः । “मातृपितृ- सम्बद्धा आसप्तमादविवाह्याः कन्या भवन्ति” । आपञ्चमादन्येषां मतं । नारदोऽपि । “आसप्तमात् पञ्चमाच्च बन्धुभ्यः पितृमातृतः । अविवाह्या सगोत्रा च समानप्रवरा तथा ॥ सप्तमे पञ्चमे वापि येषां वैवाहिकी क्रिया । ते च सन्तानिनः सर्व्वे पतिताः शूद्रतां गताः” ॥ * ॥ सर्व्वाः पितृपत्न्यो मातरस्तद्भ्रातरो मातुलास्तद्- दुहितरो भगिन्यस्तदपत्यानि भागिनेयानि ता- श्चाविवाह्याः अन्यथा सङ्करकारिण्यस्तथाध्याप- यितुरेतदेवेति । ताश्च यथा । पितृपितामहा- दीनां सप्तानां सन्ततिः सप्तमीपर्य्यन्ता नोद्वाह्या । एवं पितृबन्धुप्रभृतिसम्बन्धघटकानां सप्तानां स- न्ततिः सप्तमीपर्य्यन्ता नोद्वाह्या । एवं मातामह- प्रमातामहादीनां पञ्चानां सन्ततिः पञ्चमीप- र्य्यन्ता नोद्वाह्या । एवं मातृबन्धुप्रभृतिसम्बन्ध- घटकानां पञ्चानां सन्ततिः पञ्चमीपर्य्यन्ता नो- द्वाह्या । बन्धुतन्मात्रोरसत्वेऽपि पितृमातामह- मातृमातामहप्रभृत्युपरितनानां पञ्चानां त्रयाणां सप्तमीपञ्चमीपय्यन्ता नीद्वाह्येति । एवञ्च पितु- र्म्मातुश्च मातामहकन्यान्तरसत्वे तामादाय सप्त- मीपञ्चमीपर्य्यन्तायाः परीहारः । एवं बन्ध्वन्तरे- ऽप्यूह्यं । बन्ध्वपेक्षया त्रिगोत्रगणनं परतः सर्वत्र । पूर्ब्बतस्तु पितुर्म्मातुश्च मातुलपुत्त्ररूपबन्धोरपि स्वापेक्षया अन्येषां बन्धूनां मातामहगोत्रापेक्षया त्रिगोत्रगणनं सर्वसामञ्जस्यं स्यात् । अन्यथा पितुः पितामहदौहित्रीकन्यायाः पितामहभगि- नीपुत्त्रबन्ध्वपेक्षया त्रिगोत्रात् पराया विवाहः प्रसज्येत स चायुक्तः । पितृगोत्रापेक्षया तस्यास्त्रि- गोत्रमध्यवर्त्तित्वात् । एवं पितुः प्रमातामहदौ- हित्रीकन्यायाः पितामहीभगिनीपुत्त्रबन्ध्वपेक्षया त्रिगोत्रात् पराया विवाहः प्रसज्येत स चाप्य- युक्तः । पितामहीभ्रातृपुत्त्रबन्ध्वपेक्षया तस्यास्त्रि- गोत्रमध्यवर्त्तित्वात् । एवं मातुः प्रपिता- महदौहित्रीकन्याया मातामहभगिनीपुत्त्रबन्ध्वपे- क्षया त्रिगोत्रात् पराया विवाहः प्रसज्येत स चायुक्तः । वरस्य मातामहापेक्षया तस्यास्त्रिगोत्र- मध्यवर्त्तित्वात् । एवं मातुः प्रमातामहदौहित्री- कन्याया मातामहीभगिनीपुत्त्रबन्ध्वपेक्षया त्रि- गोत्रात् पराया विवाहः प्रसज्येत स चायुक्तः । मातामहीभ्रातृपुत्रबन्ध्वपेक्षया तस्या स्त्रिगोत्र- मध्यवर्त्तित्वात् । इति । एवं मातृसपत्नीभ्रातृ- सन्ततिः पितृमातृसगोत्रादयोऽप्यविवाह्याः ॥ * ॥ असवर्णाया अविवाह्यत्वं यथा । कलौ त्वस- वर्णया अविवाह्यत्वमाह वृहन्नारदीयं । “समुद्रयात्रास्वीकारः कमण्डलुविधारणं । द्विजानामसवर्णासु कन्यासूपयमस्तथा” ॥ इत्यादि । इत्युद्वाहतत्त्वं ॥
