अविवेकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अविवेकः, पुं, (न विवेकः । नञ्तत्पुरुषः । नास्ति विवेको यस्य इति समासे वाच्यलिङ्गः ।) सद- सद्विवेचनाराहित्यं । यथा । “देहात्मनोरविवेका- दस्यैवं शोको भवतीति तद्विवेकप्रदर्शनार्थं श्री- भगवानुवाच अशोच्यानित्यादि” । इति श्रीभग- वद्गीता २ अध्यायस्य ११ श्लोकटीका ॥ तद्वति त्रि ॥ अविमृश्यकारी । यथा, -- (“सहसा विदधीत न क्रियामविवेकः परमापदाम्पदम्” ॥ इति किरातार्ज्जुनीये ॥ सदसद्विवेकरहितः । यथा, -- “उत्तमोत्तममप्राप्यमविवेकोऽभिवाञ्छसि” । इति विष्णुपुराणं ।)
