अवीरा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवीरा, स्त्री, (नास्ति वीरः पुत्त्रादिर्यस्याः ।) अजा- तापत्यविधवा । इति स्मृतिः । निष्पतिसुता । इत्यमरमेदिन्यौ ॥ तदन्नभोजने दोषप्रायश्चित्ते यथा, -- “यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः । भगजीवी वार्द्धुषिको विषहीनो यथोरगः” ॥ इति ब्रक्ष्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥ अपि च । “अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेत् ध्रुवं” ॥ इति च तत्रैव २७ अध्यायः ॥ * ॥ विष्णुः । गण- गणिकास्तेनगायनकान्नानि भुक्त्वा सप्तरात्रं पयसा वर्त्तेत । अवीरास्त्रीस्वर्णकारसंसर्गपतितानाञ्च । इति प्रायश्चित्तविवेकः ॥ * ॥ सामान्येनाभोज्यान्न- भोजनप्रकरणे मनुः, -- “नाश्रोत्रियहुते यज्ञे ग्रामयाजिहुते तथा” । इत्यादि । “अनर्चितं वृथामांसमवीरायाश्च योषितः” इत्यादिकञ्चोपक्रम्य । “भुक्त्वा चान्यतमस्यान्नममत्याक्षपणं त्र्यहं” । “मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव” ॥ इति । अवीरा पतिपुत्त्रविहीना निःसम्बन्धिनी । स्वसम्बन्धिन्यास्तु श्राद्धादिनाभ्यनुज्ञानात् व्यव- हारात् धनाधिकाराच्च । इति च प्रायश्चित्त- विवेकः ॥ * ॥ अस्या धनाधिकारो यथा याज्ञ- वल्क्यः, -- “पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्याः सब्रह्मचारिणः ॥ एषामभावे पूर्ब्बस्य धनभागुत्तरोत्तरः । इति छन्दोगपरिशिष्टेन आद्यपञ्चदशश्राद्धैः प्रेत- त्वपरीहारोक्तत्वाच्च । एतत्पत्युरभावे द्रष्टव्यं । ततश्च शिशौ पुत्रे अन्येनापि सपिण्ड्यते । एवं पतिसत्वेऽपि । अतएव मैथिलैरवीरायाः सपिण्डनं नास्तीत्युक्तं । इति च शुद्धितत्त्वं ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवीरा स्त्री।
पतिपुत्ररहिता
समानार्थक:अवीरा
2।6।11।2।1
स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना। अवीरा निष्पतिसुता विश्वस्ताविधवे समे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवीरा/ अ-वीरा f. (a woman) who has no husband , a widow RV. x , 86 , 9 BhP.
अवीरा/ अ-वीरा f. one who has neither husband nor son Mn. iv , 213 Ya1jn5. i , 163
