अव्यवहार्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अव्यवहार्य्यम्, त्रि, (वि + अव + हृ + ण्यत् । ततोनञ्- समासः ।) व्यवहारायोग्यं । अव्यवहरणीयं । यथा । ज्ञानतश्चाण्डालान्त्यस्त्रीगमने तत्तुल्यतया द्विगुणव्रताचरणे कृतेऽपि न व्यवहार्य्यः । यथा याज्ञवल्क्यः । “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतोऽव्यवहार्य्यस्तु वचनादिह जायते” ॥ पापान्तरेऽप्यव्यवहार्य्यत्वं याज्ञवल्क्योक्तम् । “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्” ॥ “अत्र च कामतो महापातकादिवृहत्पापकर्तु- रव्यवहार्य्यत्वदर्शनात् कामतो बहुतरगुणयुक्त- शरणागतादिहन्तॄणामव्यवहार्य्यत्वं न तु हीनतर- हन्तॄणां अन्यथा विषमशिष्टतापत्तिः स्यात्” । इति प्रायश्चित्ततत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अव्यवहार्य्य¦ त्रि॰ वि + अव + हृ--ण्यत् न॰ त॰। शयनासन-भोजनादौ एकत्रावस्थानायोग्ये पतितादौ
“कामतोऽव्यव-हार्य्यस्तु वचनादिह जायते” स्मृतिः। अव्यवहार्य्यास्तु पाति-त्यहेतुकर्म्मकारिणः स्मृतावुक्तावेद्यास्तेषां संसर्गविशेषोऽपिनि-षिद्धः यथा
“याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम्। कृत्वा सद्यः पतन्त्येते पतितेन न संशयः” देवलः
“शरणा-गतबालस्त्रीहिंसकान् संवसेन्न तु। चीर्ण्णव्रतानपि सदाकृतघ्नसहितानपि” या॰ स्मृ॰। स्त्रीघातकस्याव्यवहार्य्यत्वञ्चहीनवर्ण्णोपभुक्ताव्यतिरिक्तविषयम्
“हीनवर्ण्णोपभुक्ता यात्याज्या बध्याऽपि वा भवेत्” वृह॰ स्मृतौ तस्या बध्यत्वोक्तेःअत्र कृतप्रायश्चित्तानामपि अव्यवहार्य्यतोक्तेः अकृत-प्रायश्चित्तानां सुतरां तथात्वम् तच्च शङ्कापूर्ब्धं प्रा॰ त॰रघुनन्दनेन समर्थितं यथा।
“पापाभावे कथमव्यवहा-र्य्यता” इति चेत् या॰ स्मृतौ वचनादिह जायते इत्युक्ते-स्तथात्वम्। तथाच किमिव वचनं न कुर्य्यात् नास्तिवचनस्यातिभारः तथाहि पापस्य द्वे शक्ती नरकोत्पादिकाव्यवहारविरोधिका च। तत्रैकतरशक्तिविनाशेऽपिव्यवहारविरोधिका शक्तिरस्त्येवेति यथोक्तमापस्तम्बेन
“नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते” इति प्रत्यासत्तिर्भोजनादौ सान्निध्यम्” मिताक्षरायान्तुकामतो व्यवहार्य्य इत्येव पाठः तथैव तेन व्याख्यात च
“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्। कामतो व्यवहा-र्य्यस्तु वचनादिह जायते” या॰ स्मृ॰।
“प्रायश्चित्तैः वक्ष्य-माणैरज्ञानाद्यदेनः पापं कृतं तदपैति अपगच्छति नकामतः कृतम्” किन्तु तत्र प्रायश्चित्तविधायकवचनबला-दिह लोके व्यवहार्य्यो जायते इति” --{??}मर्थितश्चायमर्थआशङ्कापूर्ब्धकं तत्रैव यथा
“ननु कामकृते प्रायश्चित्ता-भावात् कथं व्यवहार्य्यत्वम्? तदभावश्च
“अनभिसन्धिकृते-ऽपराधे प्रायश्चित्तमिति” वसिष्ठवचनात्,
“इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्। कामतो ब्राह्मणबधेनिष्कृतिर्न विधीयते” इति मनुवचनाच्चावगम्यते। नैतत्। [Page0471-a+ 38]
“यः कामतो महापापं नरः कुर्य्यात् कथञ्चन। न तस्यनिष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इति। तथा
“विहितंयदकामानां कामात्तद्द्विगुणम्भवेदिति” च कामकृतेऽपिप्रायश्चित्तदर्शनात्। यत्तु वशिष्ठवचनम् तस्याप्यकामकृतेऽ-पराधे प्रायश्चित्तं श्रुद्धिकरमित्यभिप्रायः, न पुनः कामकृतेप्रायश्चित्ताभाव इति। यत्तु मनुवचनम्
“इयं विशु-द्धिरुदितेत्यादि” तदपीयमिति सर्वनामपरामृष्टद्वादश-बार्षिकव्रतचर्य्याया एव
“कामतो ब्राह्मणबधे निष्कृतिर्नविरधीयते” इत्यनेन प्रतिषेधो, न पुनः प्रायश्चित्तमात्रस्य,मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात्। ननु यदि कामकृतेऽपिप्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषात्?यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथम्भवति?उच्यते उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते। अज्ञानकृते सर्व्वत्र पापक्षयः यत्र तु
“व्रह्महासुरापगुरु-तल्पगमातृपितृयोनिसम्बन्धावगमस्तननास्तिकनिन्दित कर्म्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातक-संयोजकाश्चेति” गौतमोक्तं महापातकादौ व्यवहार्य्यत्वंनिषिद्धं तस्मिन् पतनीये कर्म्मणि कामतः कृते व्यवहार्य्यत्व-मात्रं न पापक्षय इति। न च पापक्षयाभावे व्यवहार्य्यत्वमनुपपन्नम्। द्वे हि पापस्य शक्ती नरकोत्पादिका व्यव-हारविरोधिका च तत्रैकतरशक्त्यविनाशेऽपि व्यवहारवि-रोधिकायाः शक्तेर्विनाशोनानुपन्नस्तस्मात् पापानपगमेऽपिव्यवहार्य्यत्वं नानुपपन्नम्। यत्तु मनुवचनम्
“अकामतःकृते पापे प्रायश्चित्तं विदुर्बुधाः। कामकारकृतेऽप्याहुरेके-श्रुतिनिदर्शनादिति” तदपि कामकृतेऽपि प्रायश्चित्तप्रा-प्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम्। अपतनीयेपुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव।
“अका-मतः कृतं पापं वेदाभ्यासेन श्रुद्ध्यति। कामतस्तु कृतंमोहात् प्रायश्चित्तैः पृथग्विधैरिति” मनुस्मरणात्। पत-नीयेऽपि कर्म्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मषक्षयोभवत्येव फलान्तराभावात्।
“नास्यास्मिन् लोके प्रत्यास-त्तिर्विद्यते कल्षन्तु निर्हन्यत इत्यापस्तम्बस्मरणात्” इति।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अव्यवहार्य्य¦ mfn. (-र्य्यः-र्य्या-र्य्यं) Unactionable, not to be discussed in law. E. अ neg. व्यवहार्य्य actionable.
