सामग्री पर जाएँ

अव्यवहार्य्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव्यवहार्य्यम्, त्रि, (वि + अव + हृ + ण्यत् । ततोनञ्- समासः ।) व्यवहारायोग्यं । अव्यवहरणीयं । यथा । ज्ञानतश्चाण्डालान्त्यस्त्रीगमने तत्तुल्यतया द्विगुणव्रताचरणे कृतेऽपि न व्यवहार्य्यः । यथा याज्ञवल्क्यः । “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतोऽव्यवहार्य्यस्तु वचनादिह जायते” ॥ पापान्तरेऽप्यव्यवहार्य्यत्वं याज्ञवल्क्योक्तम् । “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्” ॥ “अत्र च कामतो महापातकादिवृहत्पापकर्तु- रव्यवहार्य्यत्वदर्शनात् कामतो बहुतरगुणयुक्त- शरणागतादिहन्तॄणामव्यवहार्य्यत्वं न तु हीनतर- हन्तॄणां अन्यथा विषमशिष्टतापत्तिः स्यात्” । इति प्रायश्चित्ततत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=अव्यवहार्य्यम्&oldid=114266" इत्यस्माद् प्रतिप्राप्तम्