अव्यवहितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अव्यवहितम्, त्रि, (वि + अव + धा + क्त । ततो नञ्- तत्पुरुषः ।) व्यवधानशून्यं । तत्पर्य्यायः । संसक्तं २ अपटान्तरं ३ अपदान्तरं ४ । इत्यमरः ॥ तट्टीका च ॥ लग्नं ५ । इति शब्दरत्नावली ॥ (“सिसा- धयिषाविरहविशिष्टक्षणाव्यवहितोत्तरक्षणोत्प- त्तिकानुमितिकभिन्नेति” ॥ इति दीधितिः ॥)
