सामग्री पर जाएँ

अव्याजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव्याजः, पुं, (न व्याजः । नञ्तत्पुरुषः ।) छलाभावः । यथा । “इदं किलाव्याजमनोहरं वपुः तपःक्लमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” ॥ इत्यभिज्ञानशकुन्तलानाटके प्रथमोऽङ्कः । शीघ्रं । यथा । “सेक्तव्यो यदि मारवस्तरुरयं पाथोदपाथोलवैरव्याजं परिषिञ्च किं चिरयसे कालः परिक्रामति । मूले सिक्तरसे दले विग- लिते शीर्णे तथा वल्कले न स्यादस्य परिस्थितेः प्रभुरहो धारापि वारां तव ॥” इत्युद्भटः ॥

"https://sa.wiktionary.org/w/index.php?title=अव्याजः&oldid=114272" इत्यस्माद् प्रतिप्राप्तम्