सामग्री पर जाएँ

अव्याप्यवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव्याप्यवृत्तिः, त्रि, (अव्याप्य सर्व्वावच्छेदमप्राप्य वृत्तिर्यस्य ।) किञ्चिदवच्छिन्नवृत्तिः । (“अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” । इति भाषापरिच्छेदः ।) स्वसमानाधिकरणाभावप्रतियोगीति यावत् । दै- शिककालिकभेदेन स द्विविधः । तत्पर्य्यायः । प्रादेशिकः २ । आत्मनो विशेषगुणाः । बुद्धिः १ सुखं २ दुःखं ३ इच्छा-४ द्वेषः ५ यत्नः ६ धर्म्मः ७ अधर्म्मः ८ भावनाख्यसंस्कारः ९ आकाशस्य वि- शेषगुणः शब्दः १० । सामान्यगुणौ संयोग ११ विभागश्च १२ । एते सर्व्वे अव्याप्यवृत्तयः स्युः । इति न्यायभाषा ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव्याप्यवृत्ति¦ त्रि॰ अव्याप्य सर्व्वावच्छेदमप्राप्य वृत्तिर्यस्य। स्वाधिकरणे अंशविशेषे कालभेदे वा अस्थिते पदार्थे यथासंयोगादिर्घटादिश्च न सर्व्वदेशं व्याप्य स्वाधिकरणेगृहादौ तिष्ठति। तथा आत्मनि ज्ञानादिकं न सर्व्वदातिष्ठति। अतः संयोगादीनां स्वाधिकरण एव अंश-भेदे कालभेदे च असत्त्वात्तथात्वम्। अव्याप्यवृत्तिनि-नियामकश्च देशः कालश्च तत्र देशे सत्त्वे क्वचित् कालस्यदेशभेदस्य वा नियामकत्वं क्वचित् कालसत्त्वे देशस्य इतिअव्याप्यवृत्तयश्च संयोगविभागादयो दैशिकाः कालिकाश्चतथा आत्मनि बुद्धिसुखदुःखेच्छाद्वेषयत्नधर्म्माधर्म्मभावना-ख्यसंस्काराः तेषां देहावच्छेदेन सत्त्वेऽपि घटाद्यचच्छेदे-नासत्त्वात् देहावच्छेदेऽपि सर्व्वदाऽसत्त्वाच्च तथात्वम्एवं शब्दस्य दैशिककालिकाव्याप्यवृत्तित्वम् गन्धादयस्तुकालिकाव्याप्यवृत्तयस्ते हि स्वाधिकरणे एव उत्पत्तकिआलेप्रलये च परमाणौ न तिष्ठन्ति। संयोगेन घटादयोऽपिदैशिककालिकाव्याप्यवृत्तयः।
“अव्याप्यवृत्तिः क्षणिकोविशषगुण इष्यते” भाषा॰
“अव्याप्यवृत्तिसाध्यकसद्धेता-विति” दीघितिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव्याप्यवृत्ति¦ mfn. (-त्तिः-त्तिः-त्ति) (In logic) A category of individual appli- cation, and influenced by place and time, as pain, pleasure, love, hatred, virtue, vice, &c. E. अ neg. व्याप्य diffusive, general, and वृत्ति being.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अव्याप्यवृत्ति/ अ-व्याप्य--वृत्ति mfn. being of limited application , of partial inherence (with reference to place and time , as pain , pleasure , love , hatred , virtue , vice , etc. )

"https://sa.wiktionary.org/w/index.php?title=अव्याप्यवृत्ति&oldid=211733" इत्यस्माद् प्रतिप्राप्तम्